________________
लघु जिनसहस्रनाम स्तोत्र
राघ्यो, निष्पन्नो ज्ञानलोचनः । अच्छेद्यो निर्मलो नित्यः सर्वशल्यविवर्जितः ||१०|| अजेयः सर्वतोभद्रो, निष्कषायो भवान्तकः । विश्वनाथः स्वयंबुद्धो, वीतरागो जिनेश्वरः ||११|| अंतकः सहजानन्द, स्त्ववाङ्मनसगोचरः । असाध्यः शुद्धश्चैतन्योऽकर्मण्यो कर्मवर्जितः ||१२|| अनन्तो विमलज्ञानी, निस्पृह निष्प्रकाशकः । कर्माजितो महात्मा च लोकत्रयशिरोमणिः ||१३|| अव्याबाधो वरः शंभुर्विश्ववेदी पितामहः । सर्वभूतहितो देवः सर्वलोकशरण्यकः ॥१४॥ आनन्दरूपश्चैतन्यो भगवांस्त्रिजगद्गुरुः । अनंतानंतधीशक्तिः सत्यव्यक्तोऽव्ययात्मकः ||१५|| अष्टकर्म विनिर्मुक्तः, सप्तधातुविवर्जितः । गौरवादित्रयाद्दूरः, सर्वज्ञानादिसंयुतः ||१६|| अभयः प्राप्तकैवल्यो, निर्मानो निरपेक्षकः । निष्कलः केवल ज्ञानी, मुक्तिसौख्यप्रदायकः ॥१७|| अनामयो महाराध्यो, वरदो ज्ञानपावकः । सर्वेशः सत्सुखावासो, जिनेन्द्रो मुनिसंस्तुतः ||१८|| अन्यूनः परमज्ञानी, विश्वतत्त्वप्रकाशकः । प्रबुद्धो भगवन्नाथः प्रस्तुतः पुण्यकारकः ||१९|| शंकरः सुगतो रौद्रः सर्वज्ञोमदनांतकः । ईश्वरो भुवनाधीशः, सच्चित्तः पुरुषोत्तमः ||२०|| सद्योजातमहात्मा च विमुक्तो मुक्तिवल्लभः । योगीन्द्रोऽनादिसंसिद्धो, निरीहो ज्ञानगोचरः ||२१|| सदाशिवश्चतुर्वक्त्रः, सत्सौख्यस्त्रिपुरान्तकः । त्रिनेत्रस्त्रिजगत्पूज्यः, कल्याणकोष्टमूर्तिकः ||२२|| सर्वसाधुजनेर्वन्द्यः सर्वपापविवर्जितः
६३