________________
स्तोत्र-रास-संहिता
गत्वा स्थानं परं सोऽपि, भूयस्त न निवर्त्तते ॥६२॥ इद स्तोत्रं महास्तोत्रं स्तुतीनामुत्तमं परम् । पठनात्स्मरणाज्जापाल्लभ्यते पदमुत्तमम् ॥६३||
लघुजिनसहस्रनाम स्तोत्र नमस्त्रिलोकनाथाय, सर्वज्ञाय महात्मने । वक्ष्ये तस्यैव नामानि, मौक्षसौख्याभिलाषया ॥१|| निर्मलः शाश्वतः शुद्धो, निर्विकल्पो निरामयः । निःशरीरी निरातंकः, सिद्धः सूक्ष्मो निरंजनः ||२|| निष्कलंको निरालंबो, निर्मोहो निर्मलोत्तमः । निर्भयो निरहंकारो, निर्विकारोऽथ निष्क्रियः ||३|| निर्दोषी नीरुजः शान्तो, निर्मेद्यो निर्ममः शिवः । निस्तरंगो निराकारो, निष्कर्मा निष्कलः प्रभुः ॥४|| निर्वादोऽनुपमज्ञानो, नीरागो निरघो जिनः । निःशब्दःप्रतिमश्लेष्ठ, उत्कृष्ठो ज्ञानगोचरः ||५|| निःसंगात्प्राप्तकैवल्यो, नैष्ठिकः शब्दवर्जितः । अनिंद्यो महपूतात्मा, जगच्छिखरशेखरः ||६|| निःशब्दो गुणसंपन्नः पापतापप्रणाशनः । सोऽपि योगाच्छुमं प्रातः, कर्मद्योतिबलावहः ||७|| अजरश्चामरः सिद्ध,-स्त्वचिंतश्चा क्षयो विभुः । अमूर्तस्त्वच्युतो ब्रह्म, विष्णुरीशः प्रजापतिः ॥८॥ विश्वनाथस्त्वगिंद्यश्चा, जननोऽनुपमो भवः । अप्रमेयो जगन्नाथो, बोधरूपो जिनात्मकः ॥९|| अव्ययः सकला