________________
श्रीऋषिमण्डल-स्तोत्र
६१
जगत्त्राणकृतेऽनघः ॥४९|| रणे राजकुले वह्रौ, जले दुर्गे गजे हरौ । श्मशाने विपिने घोरे, स्मृतो रक्षति मानवम् ॥५०|| राज्य-भ्रष्टा निजं राज्यं, पद-भ्रष्टा निजं पदम् । लक्ष्मी-भ्रष्टा निजां लक्ष्मी, प्राप्नुवन्ति न संशयः ॥५१॥ भार्यार्थी लभते मार्या, पुत्रार्थी लभते सुतम् । वित्तार्थी लभते वित्तं, नरः स्मरण-मात्रतः ॥५२|| स्वर्णे रूप्ये पटे कांस्ये, लिखित्वा यस्तु पूजयेत् । तस्येवाष्टमहासिद्धि हे वसति शाश्वती ॥५३|| भूर्जपत्रे लिखित्वेदं, गलके मूनि वा भुजे । धारितं सर्वदा दिव्यं, सर्व-भीति-विनाशकम् ॥५४॥ भूतैः प्रेतैर्ग्र हैर्यक्षः पिशाचै-मुद्गलैः खलः । वातपित्तकफोद्र कैर्मुच्यते नात्र संशयः ॥५५|| भूर्भुवःस्वस्त्रयीपीठवर्तिनः शाश्वता जिनाः। ते स्तुतैर्वन्दितैदष्टैर्यत् फलं तत्फलं श्रुतौ ॥५६॥ एतद्गोप्यं महास्तोत्रं, न देयं यस्य कस्यचित् । मिथ्यात्ववासिने दत्ते, बालहत्या पदेपदे ॥५७|| आचाम्लादि तपः कृत्वा, पूजयित्वा जिनावलीम् । अष्टसाहसिको जापः कार्यस्तत्सिद्धिहेतवे ||२८|| शतमष्टोत्तरं प्रातये पठन्ति दिने-दिने। तेषां न व्याधयो देहेप्रभवन्ति न च चापदः ॥५९|| अष्टमासावधिं यावत्, प्रातः प्रातस्तु यः पठेत् । स्तोत्रमेतद् महातेजो, जिनबिम्बं स पश्यति ॥६०|| दृष्टे सत्यऽहतो बिम्बे, भवे सप्तमके ध्र वम् । पदं प्राप्नोति शुद्धात्मा, परमानन्दनन्दितः ॥६१|| विश्व-वंद्यो भवेद् ध्याता, कल्याणानि च सोऽश्नुते