________________
स्तोत्र - रास-संहिता
सर्वदेवाधिको देवः सर्वभूतहितंकरः ॥२३॥ स्वयंविद्यो महात्मा च प्रसिद्धः पापनाशनः । तनुमात्रचिदानंद, रचैतन्य चैत्यवैभवः ॥२४॥ सकलातिशयो देवो. मुक्तिस्थो महतामहः । मुक्तिकार्याय संतुष्टी, नीरोगः परमेश्वरः ||२५|| महादेवो, महावीरो, महामोहविनाशकः महाभावो महादर्शी, महामुक्तिप्रदायकः ॥ २६ ॥ महाज्ञानी महायोगी, महातपो महात्मक- । महद्धिको महावीर्यो, महान्तिकपदस्थितः ||२७|| महापूज्यो महावंद्यो, महा-: विघ्नविनाशकः । महासौख्यो महापुरसो, महामहिम अच्युतः ||२८|| मुक्तोमुक्तिजसंबोध, एकोऽनेको विनिश्चलः । सर्वबंधविनिर्मुक्तः सर्वलोकप्रधानकः ||२९|| महाशूरो महाधीरो, महादुःखविनाशकः । महामुक्तिप्रदो धीरो, महाहृद्येो महागुरुः ||३०|| निर्मारो मारविध्वंसो निष्कामो विषयच्युतः । भगवांश्च महाभ्रांत, शांन्तिकल्याणकारकः ||३१|| परमात्मा परंज्योतिः परमेष्ठी - परेश्वरः । परमात्मा परानन्द, परश्च परमात्मकः ॥३२॥ प्रस्तुतानंतविज्ञानी, सौख्यनिर्वाणसंयुतः । नाकृतिरक्षरो वर्णो, व्योमरूपो जितात्मकः ॥३३॥ व्यक्तोऽव्यक्तजसंबुद्धः, संसारच्छेदकारणः । निरवद्यो महाराध्यः कर्म जिद्धर्मनायकः ||३४|| बोधिसत्वो जगद्वन्द्यो, विश्वात्मा नरकांतकः । स्वयंभूः पापहृत्पूज्यः, पुनीतो विभवः स्तुतः ॥३५॥ वर्णातीतो महातीतो, रूपातीतो निरंजनः । अनंतज्ञानसं
883
६४