________________
५०
स्तोत्र-रास-संहिता
वृहद् शान्तिः
भो भो मव्याः ! शृणुत वचनं प्रस्तुतं सर्वमेतद्, ये यात्रायां त्रिभुवनगुरोराहतामक्तिमाजः । तेषां शान्तिर्मवतु भवतामहदादि-प्रमावा, दारोग्य श्रीधृति-मतिकरी क्लेशविध्वंस-हेतुः ॥१॥ मो मो भव्यलोका ! इह हि भरतैरावतविदेहसम्भवानां, समस्त-तीर्थकृतां जन्मन्यासन-प्रकम्पानन्तर-मवधिना विज्ञाय सौधर्माधिपतिः सुघोषाघण्टाचालनानन्तरं सकल-सुरासुरेन्द्रः सह समागत्य सविनयमहद्भट्टारकं गृहीत्वा गत्वा कनकाद्रि,गे विहितजन्माभिषेकः शान्ति-मुद्घोषयति, ततोऽहं कृता नुकारमिति कृत्वा-महाजनो येन गतः स पंथाः' इति भव्य जनैः सह समागत्य, स्नात्रपीठे स्नात्रं विधाय शान्तिमुद्घोषयामि । तत्पूजायात्रा-स्नात्रादि-महो त्सवानन्तरम्, इति कृत्वा कर्ण दत्त्वा निशम्यतां निशम्यतां स्वाहा । ॐ पुण्याहं पुण्याहं प्रीयन्तां प्रोयन्तां भगवन्तोऽर्हन्तः सर्वज्ञाः सर्वदर्शिनः त्रैलोक्यनाथाः त्रैलोक्य महिताः, त्रैलोक्य-पूज्याः, त्रैलोक्येश्वराः त्रैलोक्योद्योतकराः । ॐ श्री केवलज्ञानी-निर्वाणी सागर, महायश, विमल, सर्वानुभूति, श्रीधर,दत्त, दामोदर, सुतेज, स्वामी, मुनिसुव्रत, सुमति, शिवगति, अस्ताघ, नमीश्वर, अनिल, यशोधर, कृतार्थ, जिनेश्वर, शुद्धमति, शिवकर, स्यन्दन, संप्रति, एते अतीतचतुर्विशति, तीर्थङ्कराः।