________________
कल्याणमंदिर-स्तोत्र
88
मथिताशयानाम् ॥३६|| नूनं न मोहतिमिरावृतलोचनेन, पूर्व विभो ! सकृदपि प्रविलोकितोऽसि ! मर्माविधो विधुरयंति हि मामनर्था, प्रोद्यत्प्रबंधगतयः कथमन्यथते ? ३७ आकर्णितोऽपि महितोऽपि निरीक्षितोऽपि, न्नं न चेतसि मया विधृतोऽसि भक्त या । जातोऽस्मि तेन जनबान्धव! दुःखपात्रं, यस्मात्क्रिया प्रतिफलन्ति न भावशून्याः ॥३८|| त्वं नाथ ! दुःखिजनवत्सल हे शरण्य, कारुण्यपुण्यवसते वशिनां वरेण्य । भक्त या नते मयि महेश ! दयां विधाय दुःखांकुरोद्दलनतत्परतां विधेहि ॥३९|| निसङ्ख्यसार शरणं शरणं शरण्य-मासाद्य सादितरिपुप्रथितावदातम् । त्वत्पादपङ्कजमपि प्रणिधान बंध्यो, वध्योऽस्मि चेद् भुवनपावन ! हा. हतोऽस्मि ॥४०|| देवेन्द्रवन्ध ! विदिता-खिलवस्तुसार ! संसारतारक विभो ! 'भुवनाधिनाथ । त्रायस्व देव ! करुणाहृद मां पुनीहि, सीदन्तमद्य मयंद व्यसनाम्बुराशेः ॥४१|| यद्यस्ति नाथ ! भवन्दङिघसरोरुहाणां, भक्तः फलं किमपि संततिसंचितायाः । तन्मे त्वदेकशरणस्य शरण्य भूयाः, स्वामी त्वमेव भुवनेऽत्र भवान्तरेऽपि ||४२|| इत्थं समाहितधियो विधिवजिनेन्द्र!, सान्द्रोल्लसत्पुलककञ्चुकितांगमागाः । त्वद्विम्बनिर्मलमुखाम्बुजबद्धलक्षघ्या,ये संस्तवं तव विमो!रचयन्तिभव्याः ॥४३|| जननयनकुमुदचन्द्र!प्रभास्वराः स्वर्गसंपदो भुक्त्वा । ते विगलित-मलनिचया, अचिरान्मोक्षप्रपद्यते ॥४४||