________________
स्तोत्र-रास-संहिता
एव ||२८|| त्वं नाथ ! जन्मजलधेविपरांमुखोऽपि, यत्तारयस्यसुमतो निजपृष्ठ लग्नान् । युक्त हि पार्थिवनिपस्य सतस्तवैव, चित्रं विभो ! यदसि कर्मविपाकशून्यः ॥२९॥ विश्वेश्वरोऽपि जनपालक ! दुर्गतस्त्वं, किंबाऽक्षरप्रकृतिरप्यलिपिस्त्वमीश ! | अज्ञानवत्यपि सदेव कथञ्चिदेव, ज्ञानं त्वयि स्फुरतिविश्वविकाशहेतुः ||३०|| प्रारभारसंभृतनभांसि रजांसि रोषा-दुत्थापितानि कमठेन शठेन यानि । छायापिऽतैस्तव न नाथ ! हता हताशो, ग्रस्तस्त्वमीभिरयमेव परं दुरात्मा ॥ ३१ ॥ यद्ाजदूजितघनौघमदभ्रमीम, भ्रश्यत्तंडिन्मुसलमांसलघोरधारम् । दैत्येन मुक्तमथ दुस्तरवारि दध्र, तेनैव तस्य जिन ! दुस्तरवारिकृत्यम् ॥३२|| ध्वस्तोर्ध्वकेशरिकृताकृतिमय॑मुण्ड-प्रालम्बभृद्धयदवक्त्रविनियंदग्निः प्रेतवूजः प्रति भवंतमपीरितो यः, सोऽस्यामवत्प्रतिमवं भवदुःखहेतुः ॥३३|| धन्यास्त एव भुवनाधिप ! ये त्रिसंध्य-मारा-धयंति विधिवद्विधान्यकृत्यैः । भक्त्योल्ल-सत्पुलकपक्ष्मलदेहदेशाः, पादद्वयं तव विभी! भुवि जन्ममाजः ॥३४|| अस्मिन्नपारामववारिनिधौ मुनीश ! मन्ये न मे श्रवणगोचरतां गतोऽसि । आकर्णिते तु तव गोत्रपवित्रमंत्रे किं वा विपद्विषधरी सविधं समेति! |३५|| जन्मांतरेऽपि तव पाद युगं न देव !, मन्ये मया महितमीहितदानदक्षम् । तेनेह जन्मनि मुनीश ! पराभवानां, जातो निकेतन महं