________________
४०
स्तोत्र-रास-संहिता
रुचिभिः परमाणुभिस्त्वं, निर्मापितस्त्रिभुवनैक-ललामभूत ! तावन्त एव खलु तेऽप्यणवः पृथिव्यां, यत्ते समानमपरं न हि रूप-मस्ति ॥१२॥ वक्त्रं क्व ते सुर-नरोरगनेत्रहारि, निःशेष-निजितजगत्रितयोपमानम् । बिम्ब कलङ्कमलिनं क्व निशाकरस्य, यद्वासरे भवति पाण्डु पलाशकल्पम् ॥१३॥ सम्पूर्ण-मण्डल-शशांककलाकलाप,-शुभ्रा गुणास्त्रिभुवनं तव लंघयन्ति । ये संश्रितास्त्रि-जगदीश्वर-नाथमेकं, कस्तान् निवारयति संचरतो यथेष्टम् ||१४|| चित्रं किमत्र यदि ते त्रिदशांगनाभिर्हतं मनागपि मनो न विकारमार्गम् । कल्पान्तकालमरुता चलिताचलेन, किं मन्दरादिशिखरं चलितं कदाचित् ? |१५|| निर्धूमवर्तिरपज्जिततैलपूरः, कृत्स्नं जगत्त्रयमिदं प्रकटीकरोषि । गम्यो न जातु मरुतां चलिता-चलानां, दीपोऽपरस्त्वमसि नाथ ! जगत्प्रकाशः ॥१६|| नास्त कदाचिदुपयासि न राहुगम्यः, स्पष्टीकरोषि सहसा युगपज्जगन्ति । नाम्भोधरोदर-निरुद्धमहाप्रभावः, सूर्यातिशायि-महिमाऽसि मुनीन्द्र ! लोके ॥१७|| नित्योदयं दलितमोह-महान्धकारं, गम्यं न राहु-वदनस्य न वारिदानाम् । विभ्राजते तव मुखाब्जमनल्प-कान्ति, विद्योतयज्जगदपूर्व-शशाङ्क-बिम्बम् ॥१८|| किं शर्वरीषु शशिनाऽह्नि विवस्वता वा, युष्मन्मुखेन्दुदलितेषु तमस्सुनाथ ! निष्पन्न-शालि-वनशालिनि जीव-लोके, कार्य कियजल