________________
श्रीभक्तामर स्तोत्र
३९
शाशाङ्क-कान्तान्, कस्ते क्षमः सुरगुरुप्रतिमोऽपि बुद्ध्या कल्पान्तकाल-पवनोद्धतनक्र-चक्र, को वा तरीतुमलमम्बुनिधिं भुजाभ्याम् ||४|| सोऽहं तथापि तव भक्तिवशान्मुनीश !, कर्तुं स्तवं विगतशक्तिरपि प्रवृत्तः । प्रीत्यात्मवीर्यमविचार्य मृगो मृगेन्द्र, नाभ्येति किं निज-शिशोः परिपालनार्थम् ? ||५|| अल्पश्रुतं श्रुतवतां परिहास-धाम, त्वद्भक्तिरेव मुखरीकुरुते बलान्माम् । यत् कोकिलः किल मधौ मधुरं विरौति, तच्चारु-चाम्र-कलिका-निकरैकहेतुः ।६। त्वत्संस्तवेन भव-संतति-संनिबद्धं, पापं क्षणात् क्षयमुपैति शरीर-माजाम् । आक्रान्तलोकमलिनीलमशेषमाशु, सूर्यांशु-भिन्नमिव शार्वरमन्धकारम् ||७|| मत्वेति नाथ ! तव संस्तवनं मयेद, मारभ्यते तनुधियापि तव प्रभावात् । चेतो हरिष्यति सतां नलिनीदलेषु, मुक्ताफलद्य तिमुपैति ननूद-बिन्दुः ॥८| आस्तां तव स्तवनमस्तसमस्तदोषं, त्वत्संकथापि जगतां दुरितानि हन्ति । दूरे सहस्र-किरणः कुरुते प्रभव, पद्माकरेषु जलजानि विकाशभाञ्जि ||९|| नात्यद्भुतं भुवन-भूषण ! भूतनाथ ! भूतैर्गुणैर्मुवि भवन्तममिष्टुवन्तः । तुल्या भवन्ति भवतो ननु तेन किं वा, भूत्याश्रितं य इह नात्म-समं करोति ? ||१०|| दृष्ट्वा भवन्तमनिमेष-विलोकनीयं, नान्यत्र तोषमुपयाति जनस्य चक्षुः । पीत्वा पयः शशि-कर-द्य ति दुग्धसिन्धोः, क्षारं जलं जलनिधेरशितुं क इच्छेत् ? ||११॥ यः शान्तराग