________________
श्रीभक्तामर स्तोत्र
धरैर्जल-भारनम्रः ॥१९॥ ज्ञानं यथा त्वयि विभाति कृतावकाशं, नैवं तथा हरिहरादिषु नायकेषु । तेजः स्फुरन्मणिषु याति यथा महत्त्वं, नैवं तु काचशकले किरणाकुलेऽपि ॥२०॥ मन्ये वरं हरिहरादय एव दृष्टा, दृष्टेषु येषु हृदयं त्वयि तोषमेति । किं वीक्षितेन भवता भूवि येन नान्यः, कश्चिन्मनो हरति नाथ ! भवान्तरेऽपि ॥ २१ ॥ स्त्रीणांशतानि शतशो जनयन्ति पुत्रान्, नान्यासुतं त्वदुपमं जननी-प्रसूता । सर्वा दिशो दधति भानु सहस्ररश्मिं, प्राच्येवदिग जनयति स्फुरदंशुजालम् ||२२|| त्वामामनन्ति मुनयः परमं पुमांस, - मादित्य-वर्णममलं तमसः परस्तात् । त्वामेव सम्यगुपलभ्य जयन्ति मृत्यं, नान्यः शिवः शिव पदस्य मुनीन्द्र ! पन्थाः ॥२३|| त्वामव्ययं विभुमचिन्त्यमसंख्यमाद्य, ब्रह्माणमीश्वरमनन्तमनंगकेतुम् । योगीश्वरं विदितयोगमनेकमेकं, ज्ञानस्वरूप-ममलं प्रवदन्ति सन्तः ॥ २४ ॥ बुद्धस्त्वमेव विबुधार्चित-बुद्धि-बोधात्, त्वं शंकरोऽसिभुवनत्रयशंकरत्वात्। धाताऽसि धीर ! शिवमार्ग विधेविधानाद्, व्यक्त त्वमेव भगवन् ! पुरुषोत्तमोसि ॥२५|| तुभ्यं नमस्त्रिभुवनातिहराय नाथ । तुभ्यं नमः क्षितितलामल-भूषणाय ।तुभ्यं नमस्त्रिजगतः परमेश्वराय, तुभ्यं नमो जिन ! भवोदधि-शोषणाय ॥२६॥ को विस्मयोऽत्र यदि नाम गुणैरशेष, स्त्वंसंश्रितो निरवकाशतया मुनीश ! दोषै-रुपात्त-विविधाश्रय-जात-गर्वे,