________________
सरस्वती-स्तोत्रम्
१०३
तव देवि ! कोपिन विभुर्माहात्म्यमामूलतो, नो ब्रह्मा न च शंकरो नहि हरि! वाक्पतिः स्वपतिः । त्वच्छक्तिर्वरिवति विश्वजननी लोकत्रयव्यापिनी । सा त्वं काचिदगम्यरम्यहृदया वाग्वादिनी पाहिमाम् ॥८|| स्तोत्रं पठेद्यः श्रुतदेवतायाः । भक्त्यायुतः शुद्धमनाः प्रमाते ॥ विद्याविलासं विपुलं प्रकाशं, प्राप्नोति पूर्ण कमलानिवासम् ॥९||
|| सरस्वती-स्तोत्रम् ॥ कलमरालविहंगमवाहना, सितदुकूलविभूषणभूषिता । प्रणतभूमिरुहामृतसारिणी, प्रवरदेहविभामरधारिणी ॥१॥ अमृतपूर्णकमंडलुधारिणी, त्रिदशदानवमानवसेविता । भगवती परमैव सरस्वती, मम पुनातु सदा नयनांबुजम् ॥२॥ जिनपतिप्रथिताखिलवाङ्मयी, गणधराननमंडपनर्तकी । गुरुमुखांबुजखेलनहंसिका, विजयते जगति श्रुतदेवता ||३|| अमृतदीधितिबिंबसमाननां, त्रिजगतीजननिर्मितमाननां। नवरसामृतवीचिसरस्वती, प्रमुदितः प्रणमामि सरस्वतीं ॥४॥ विततकेतकपत्रविलोचने, विहितसंसृतिदुष्कृतमोचने । धवलपक्षविहंगमलांछिते, जय सरस्वति ! पूरितवांछिते ||| भवदनुग्रहलेशतरंगितास्त्वदुचितं प्रवदंति विपश्चितः। नृपसमासु यतः कमलाबलात्, कुचकलाललनानि वितन्वते ||६|| गतधना अपि हि त्वदनुग्रहात्, कलितकोमलवाक्यसुधोर्मयः ।