________________
१०२
स्तोत्र-रास-संहिता सरस्वती-स्तोत्रम्
त्वं शारदा देवि समस्त शारदा विचित्ररूपा बहुवर्णसंयुता। स्फुरन्ति लोकेषु तवैव सूक्तयः सुधास्वरूपा वचसां महोर्मयः ॥१|| भवद्विलोलम्बकदर्शनादहो मन्दोपि शीघ्र कविरेव जायते। तवैव महात्म्यमखण्डमीक्ष्यते तवार्थवादः पुनरेव गीयते ॥२॥ कर्पूरनीहारकरोज्वलो तनुर्विमाति ते भारति शुक्लनीरजे । कराग्रभागे धृत चारुपुस्तका डिण्डीरहीरामलशुभ्रचीवरा ||३|| मरालवाला मलवामवाहना स्वहस्तविन्यस्त विशालकच्छपी। ललाटपट्टे कृतहेमशेखरा सन्ना प्रसन्ना भवतात्सरस्वती ||४|| सद्विद्याजलराशितारणतरी सद्र पविद्याधरी। जाड्यध्वान्तहरी सुधाब्धिलहरी श्रेयस्करी सुन्दरी॥ सत्या त्वं भुवनेश्वरी शिवपुरी सूर्यप्रभाजित्वरी || स्वेच्छादानविताननिर्जरगवी सन्तापतांछित्त्वरी ||५|| सुरनरसुसेव्या सेवकेनापि सेव्या । भवति यदि भवत्या किं कृपा कामगव्या | जगति सकल सूर्यस्त्वत्समान नभव्या । रुचिरसकलविद्या दायिका त्वं तुनव्या |६|| यो भक्त्या सुरितो नवीति सततं जघ्नन्ति मौढ्य महत्त्वत्सेवा च चरीकरीति तरसा बोमोति संश्रेयसाम् ॥ त्वं मातईरित्ति चेतसि निजे दष्टिरोचिर्मयम् । तस्याने नरिनत्ति योजितकरो भूपो नटीवत्स्वयम् ||७|| आख्यातं