________________
१०४
स्तोत्र-रास-संहिता
चकितबाल कुरंगविलोचना, जनमनांसि हरंतितरां नराः ||७|| करसरोरुहखेलनचंचला, तव विभाति वरा जपमालिका | श्रुतपयोनिधिमध्यविकस्वरो-ज्ज्वलतरंगकलाग्रहसाग्रहा || द्विरद-केसरि-मारि-भुजंगमाऽसहनतस्कर-राज-रुजां मयं । तव गुणावलिगानतरंगिणां, न भविनां भवति श्रुतदेवते ! ||९||
स्रग्धरा---ॐ ह्रीं क्ली ब्लू ततः श्री तदनु हसकलं हीमथो ऐं नमोऽन्ते, लक्षं साक्षाज्जपेद् यः किल शुभविधिना सत्तपा ब्रह्मचारी। निर्याती चंद्रबिंबात् कलयति मनसा त्वां जगच्चंद्रिकामां, सोऽत्यर्थं वह्निकुंडे विहितघृतहुतिः स्याद्दशांशेन विद्वान् ॥१०||
शार्दूल---रे रे लक्षण-काव्य-नाटक-कथा-चम्पू समालोकने, क्वायासं वितनोषि बालिश ! मुधा किं नम्रवक्त्रांबुजः । भक्त्याऽऽराधय मंत्रराजमहसा तेनाऽनिशं भारती, येन त्वं कवितावितानसविताऽद्वतः प्रबुद्धायसे ||११|| चंचच्चंद्रमुखी प्रसिद्धमहिमा स्वच्छंदराज्यप्रदाऽनायासेन सुरासुरेश्वरगणैरभ्यचिंता मावतः । देवी संस्तुतवैभवा मलयजा लेपांगरागद्य तिः, सा मां पातु सरस्वती भगवती त्रैलोक्यसंजीवनी ||१२|| __द्रुतविलंबित--स्तवनमेतदनेकगुणान्वितं, पठति , यो मविकः प्रमुदा प्रगे । स सहसा मधुरैर्वचनामृतैनृपगणानपि रंजयति स्फुटम् ||१३||