________________
१७ सर्गः]
हीरसौभाग्यम् ।
नागरजातीयेन नंगमेन वणिजा प्रातस्त्रयोदशीवासरस्य विभाते दिवसप्रारम्भसमये पुरीजनानामुन्नतनगरलोकानां पुरोऽग्रे तन्नाटकदर्शनादिकमुदीर्यते स्म प्रोवाच । किं कृत्वा। तस्य सूरेद्र्तः शरीरत्य संस्कृतिपदे संस्कारकरणस्थानके नक्तं सुरसृष्टं देवनिर्मितं नाट्यं नाटकमालोक्य दृष्ट्वा तस्मिन्निव तीर्थ इव । यथा शत्रुजयादितीर्थभूमौ सुरकृतं ता. ण्डवम् । केनचिद्भाग्यवता इति शेषः । विलोक्यते । किंभूतेन नागरनैगमेन । तस्य सूरिशरीरसंस्करणस्थानकस्य संनिधौ समीपे तिष्ठतीति तादृशी कृषिः कर्षणं तस्या रक्षणे पालने दीक्षितेन गृहीतप्रतिज्ञेन । नक्तं कृषिरक्षकेणेत्यर्थः । स्वस्य वान्यस्य ना ॥ इति नागरनैगमस्य नक्तं नाटकदर्शनकथनम् ॥
दिव्यविमानविलोकनवाती पुनरेत्य स त्यवाग्विप्रः । • न्यगदनगरजनानां स्वप्नविदां खानमिव पुरतः ॥ १८८॥
सत्या अवितथा वाग्वाणी यस्य तादृशो विप्रः पूर्वप्रोक्तभट्टः पुनरेत्यागयोनतनगरे समेत्य नगरजनानां पुरतः अग्रे दिव्य विमानविलोकनवा यन्मया नक्कं हीरविजयसू. रिनिर्वाणगमनरजनीप्रथमचतुर्घटिकासमये दिव्यविमानं देवतासंबन्धि यानं निजनयनाम्यां दृष्टं तन्मध्ये च देवानां 'हीरविजयसूरिवदनं विलोकयामस्त्वरितं चलन्तु' इति वातापि श्रवणाभ्यां श्रुता चेति न्यगदद्वदति स्म । कमिव । खप्नमिव । यथा कोऽपि ख. प्रद्रष्टा पुमान् स्वप्नविदा खप्नाध्यायपाठकानां पुरतः खखप्नं निगदति ॥ इति विमान. दर्शनवार्ताकथनम् ॥
तस्यामेव त्रियामायां स माकन्दो वसन्तवत् ।
पूर्व मञ्जरितोऽनल्पैः फलैः संपूरितस्ततः ॥ १८९॥ यदधोभूमिभागे सूरिशरीरं संस्कृतं स एव माकन्दः सहकारतरुस्तस्यामेव गुरुगात्र. संस्कारकरणदिवसस्यैव त्रियामायां विभावर्यामेव पूर्व प्रथमसमये एव मञ्जरितः मअ
रीभिः कलिकाभिः कलितो जातः ततो मञ्जरीणां 'मउर' इति प्रसिद्धानां पूरणानन्तरमनल्पैः संख्यातीतैः फलैराम्रसस्यैः संपूरितः पूरणीभूतः । यथा पत्राण्यपि चक्षुषा नेक्षन्ते तथा फलावलीभिरलंकृतो जातः॥
चित्रीयमाणैश्चित्तान्तर्यात्रायामिव यात्रिकैः ।
समाजग्मे समं तत्र नागरैर्नागरीसखैः ॥ १९० ॥ तत्र हीरसूरिशरीरसंस्कारस्थाने सहकारसालसमीपे नागरीसखैः पौरपुरंध्रीपरंपरापरीतै गरैर्नगरलोकैः सममेककालं तदाम्रमञ्जरीसहकारिकाप्रादुर्भावश्रवणानन्तरमेवानु पश्चात्समाजग्मे समागतम् । कैरिव । यात्रिकैरिव । यथा यात्राकारकैलॊकैः यात्रायां शत्रुजयादितीर्थयात्राकृते चैत्रीपूर्णिमादिवासरे ! किंभूतैः । चित्तान्तर्मनोमध्ये चित्रीयमाणेराश्चर्य विस्मयं प्राप्नुवद्भिः । मञ्जरीफलदर्शनादिति शेषः ॥