________________
९०२
काव्यमाला। पाणां सहस्रद्वयेन विंशतिशत्या व्ययेन संगृहीतैरानीतैः कथोपका इत्याख्या नामवि. शेषा येषाम् । 'कथीपो' इति प्रसिद्धाः। ते आदिमाः प्रथमा येषां तादृशैर्दिव्यैदेवदुकू. लोपमैर्वस्त्रैः कृत्वा श्राद्धा द्वीपोन्नतपुरश्रावकाः मुनीन्दोहारसूरेमण्डपिकां 'मांडवो' इति प्रसिद्धां व्यधुश्चक्रिरे । के इव । महेन्द्रा इव । यथा पुरंदरा आप्तभर्तुः तीर्थकरस्य शिबिकां याप्ययानं विदधते ॥
ते ल्यारिकाभित्रतिपस्य सार्धसहस्रयुग्मप्रमिताभिरङ्गम् । अपूपुजन्भक्तिभरोल्लसन्तो जिनेशितुर्मूर्तिमिव प्रसूनैः ॥ १७२ ॥ . ते श्राद्धाः सहार्थेन वर्तते तत्सार्धम् , सहस्रयोदशशत्योर्युग्मं युगलम् , सार्धं च तत्सह सयुग्मं च । तेन प्रमिताभिः प्रमाणं प्रापिताभिः पञ्चविंशतिशतप्रमाणाभिारिकाभिः कृत्वा व्रतिपस्य सूरेः अङ्गं शरीरमपपुजन्नर्चयन्ति स्म । कामिव । मूर्तिमिव । यथा श्राद्धा जिनेशितुस्तीर्थकरस्य प्रतिमा प्रसूनैः कुसुमैः पूजयन्ति । किंभूताः । भक्केः सेवासक्तः भरेणातिशयेनोल्लसन्तः रोमाञ्चकञ्चुकीभवन्तः ॥
नभोनभस्याविव निःसरद्भिः पयःप्रवाहैर्नयने वितन्वन् । यावजनो मण्डपिकाममुष्यालंकारयामास शरीरयष्टया ॥ १७३॥ जनः श्राद्धलोकः यावद्यावता समयेन अथवा यस्मिन् समये अमुष्य खंगतस्य सूरेः शरीरयष्टया तनूलतया कृत्वा मण्डपिकामलंकारयामास भूषयति स्म । वसनाद्यैर्भूषितायां मण्डपिकायां सूरिशरीरं शाययति स्मेत्यर्थः । जनः किं कुर्वन् । नयने खनेत्रे नभोनभस्याविव श्रावणभाद्रपदाविव वितन्वन् विदधत् । कैः । निःसरद्भिर्दुःखप्रकर्षाविरलधारनिवहनिःसरद्भिः पयःप्रवाहैर्बाष्पजलप्लवैः ॥
विमानघण्टापटुनादसान्द्रध्वनत्सुघोषेव गभीररावा । घण्टावली तावददृश्यमानाप्यध्वानितादिध्वनदभ्रमार्गे ॥ १७४ ॥ सावता समयेन तस्मिन् समये वा अध्वानिताः कैश्चनापि मानवैरवादिता: कैरपि जनमात्रैरताच्यमानापि खयमेवादृश्यमाना नापि केषांचिच्चक्षुर्गोचरे भवन्ती तादृशी घण्टानामत्र मण्डले देवगृहे वादनवाद्यविशेषाणां द्वीपबन्दिरादौ च घटिकायामादिमानविशेषकृत्ये वादनीयानां 'घाट' इति प्रसिद्धनानाम् आवली श्रेणी अदिध्वनत् गाढं शब्दायते स्म । क्व । अभ्रमार्गे मेघाध्वनि व्योमाङ्गणे । किंभूता । गभीरो मन्द्रो रावो ध्वनिर्यस्याः । केव । विमानानां सौधर्मदेवलोकसंबन्धिनां द्वात्रिंशल्लक्षैर्मितानां देवनिव. सनकृते नगरूपाणां घण्टानामेकसमयदंध्वनन्महद्धण्ठिकानां पटुभिरतिपश्चविषयसुखसं. लीनतया किमप्यन्यत्कृत्याकृत्येष्वदत्तावधानानां देवानां खखामिकार्यनिर्माणप्रगुणीकारणप्रवणैः नादैः निःक्वाणैः प्रकटध्वनिभिः सान्द्रध्वनत् बहलीभूतशब्दायमाना सुघोषा घण्टेव ॥ इति मंण्डपिकाकरणसूरिशरीरशायनम् ।।