________________
१७ सर्गः
हीरसौभाग्यम् ।
९०१
रेण सूरिवक्रवीक्षणविधिना कृतार्थाः कृतकृयाः स्यामो भवामः । तस्मात्कारणात् हे भ्रातरः सुरा देवाः, त्वरितं शीघ्रतरं चरन्तु प्रचलन्तु ॥
एवं सुराणां वदतां तदानीं क्षणाददृश्यं तदभूद्विमानम् । सौदामिनीमण्डलमम्बुदानामिवातिगी सृजतां गभीराम् ॥ १६८ ॥ तदानीं तस्मिन्नेव वार्ताकरणसमये एवममुना पूर्वोक्तप्रकारेण वदतां परस्परं वातयतां प्रवृत्ति विदधतां सतां सुराणां देवानां तद्भटेन तत्स्वयं दृष्टया दृष्टं विमानं क्षणाग्निमेषषमात्राददृश्यं दृष्टेरगोचरमभूदजायत । किमिव । सौदामिनीमण्डलमिव । यथा गभीरां मन्द्रामतिशयेन गर्जारवं मृजतां कुर्वतां सतामम्बुदानां जलदानां विद्युद्वितानं क्षणाददृश्यं दृग्गोचरातीतं भवति ॥ इत्युनतपुरपार्श्वग्रामस्थभहस्य दिव्यविमानदर्शनम् ॥
सूरिस्ततः संश्रयति स्म शुक्लध्यानं दधानः स सुधाशसौधम् । कान्महानन्दपुरे प्रयातुं प्राक्तस्य मार्गस्य दिदृक्षयेव ॥ १६९ ॥
ततो विमानागमनानन्तरं सूरिहीरविजयसूरिः सुधाममृतमश्नन्ति भजन्तीति सु. धाशा देवास्तेषां सौधं गृहम् । देवलोकमित्यर्थः । संश्रयति स्म भजते स्म । स्वर्ग गत इत्यर्थः । किं. कुर्वाणः । शुक्लध्यानं दधानः धारयन् । ध्यायनित्यर्थः । उत्प्रेक्ष्यतेमहानन्दपुरे मोक्षनगरे प्रयातुं गन्तुं काडून् सन् प्राक् पूर्व तस्य मोक्षनगरस्य मार्गस्य समीचीनताशालितस्य मार्गस्य पथो दिदृक्षया द्रष्टुमिच्छया। अथ वा कीहक प्रध्वरो वा वक्रो वा समो वा विषमो वा, कथं कया रीत्या गन्तव्यमित्यादिदर्शनेच्छया इव ॥ इति हीरविजयसूरिगुरोः खर्गमनम् ॥
अस्तं गभस्तेरिव कोकलोकः शोकाकुलो बाष्पजलाविलाक्षः ।
श्रुत्वा गुरोः स्वर्गमनं निशायां जनवजो द्वीपपुरादुपागात् ॥ १७० ॥ .. जनवजः श्राद्धवर्गो निशायां रजन्यामेव त्वरितं द्वीपपुराद्वीपबन्दिरादुपागादुन्नत. पुरे समेतः । किं कृत्वा । निशायामेकादशीरजन्यां गुरोः सूरेः स्वर्गमनं देवलोके पादावधारणं श्रुत्वा आकर्ण्य । किंलक्षणो जनः । बाष्पजलैरतिदुःखनिपतनयनाश्रुसलिलै. -राविले व्याप्ते अक्षिणी नेत्रे यस्य । पुनः किंभूतः । शोकेन खेदेन आकुल: उत्पिञ्जलः । क इव । कोकलोक इव । यथा गभस्तेर्भास्करस्यास्तं द्वीपान्तरगमनं श्रुत्वा चक्रवाकचक्र शोकाकुलं बाष्पजलाविलाक्षं भवेत् । 'आलोकतालोकमुलूकलोकः' इति नैषधे । उलूकलोकस्तथा कोकलोकः । तथा 'आकाशे सावकाशे तमसि सममिते कोकलोके सशोके' इति नाटककाव्ये ॥ ल्यारीसहस्रद्वयसंगृहीतकथीपकाख्यादिमदिव्यवस्त्रैः । श्राद्धा व्यधुर्मण्डपिकां मुनीन्दोरिवाप्तभर्तुः शिबिकां महेन्द्राः॥१७॥ शलाककाराणां द्विपुटीकृतानां कलधौतमयानां ल्यारिका इति नाम्नां नागकविशे