________________
काव्यमाला।
ऐरावणस्य समुद्रमध्यादुत्पनविनिःसृतत्वेन तवंशस्यापि सद्भावः संभाव्यते एव । यदुकं नैषषेऽपि–पयोनिलीनाभ्रमुकामुकावलीरदाननन्तोरगपुच्छमच्छवीन्' इति । तथा समुद्रस्यापि अत्र सामीप्यादियमुत्प्रेक्षा घटत एव । अथ प्रस्तुतम् । इति किम् । यदनेन सूरिणा गत्या पुरतो युगप्रमाणां धरणीं चक्षुषा प्रेक्षमाणा । ईर्यासमिति पूर्वकं मन्थर• गमनेन अभ्रकुम्भी ऐरावणः । 'ऐरावणोऽभ्रमातङ्गश्चतुर्दन्तार्कसोदरे' इति हैम्याम् । किं कथं कया रीत्या जितोऽभिभूतः ॥ पर्याणितास्तत्र तुरङ्गमास्ते रेजुर्जवाधःकृतवातवेगाः। यैर्निर्जिता भानुमतस्तुरङ्गा हियेव नाद्यापि भुवं स्पृशन्ति ॥ ७१ ॥ तत्र संमुखागमनसमये ते तादृशा ये अग्रे खगुणोत्कर्षेरुत्प्रेक्षा प्रापिताः । अथ वा ते काम्बोजकामरूपकच्छसिन्धुदेशोद्भवा विविधजातीयाः प्रसिद्धास्तुरङ्गमाः भवाः । यदुक्तं प्राकृतवाक्ये-'ये गंगाजलनीअडा हरिभडा कालाकिहाडापुरा साणीसिंघल. सिंधु आकलहला कस्मीरियां कुंकुणा । टुंकेकानि अनेकवानिपिहुला पीठे पगे नीसला दे हेष्यत्रियकुं अरा जिमसुरा ते जीतुषारैवढा ॥' इति.। पर्यागिताः पल्ययनकलिताः कृताः । 'पर्याणं तु पल्ययनः' इति हैम्याम् । रेजुः विभान्ति स्म । किंभूताः । जवेन मानसातिपातिगविरंहसा अधःकृतो निरस्तो वातानां पवनानां वेगो रयो वैस्ते । ते के। यैस्तुरङ्गमैर्भानुमतो भाखतस्तुरङ्गा वाजिनः निर्जिता गतिवराभिः पराभूताः सन्तः । उत्प्रेक्ष्यते-अद्याप्यद्यतनं वर्तमानं वासरं प्रभृति यावन्मण्डयित्वा हिया लजयेव कृत्वा भुवं क्षोणी न स्पृशन्ति । लजिता हि खं मुखं दर्शयितुमनलंभू. ष्णवः पृथिव्यां नायान्तीत्यर्थः ॥
रथाङ्गभाजस्त्वरमाणतायाः सुजातरूपा घननन्दकाश्च । अम्भोजनामा इव कामरोमशोभाः शताङ्गाः शतशः प्रचेलुः ॥७२॥ शतशः शतसहस्रसंख्याकाः शताङ्गा रथाः । 'शताङ्गः स्यन्दनो रथः' इति हैम्याम् । प्रचेलुः सूरेरभिमुखं प्रचलन्ति स्म । उत्प्रेक्ष्यते-अम्भोजनाभाः कृष्णा इव । किंभूता रथाः कृष्णाश्च । रथाङ्गं रथपादं चक्रं 'पइडे' इति प्रसिद्धं सुदर्शनं चक्रं भजन्ति इति रथाङ्गभाजः। पुनः किंभूताः। त्वरमाणाः शीव्रगामिनस्ताास्तुरङ्गमा गरुडाश्च येषां ते। च पुनः किंभूताः। शोभनं जातरूपं सुवर्णः काञ्चनजटितत्वेन । पक्षे जातमुत्पन्नं रूपमतिशायिसुन्दरशरीराकारविशेषो येषाम् । पुनः किंभूताः । घनान्बहुजनानन्दयन्ति प्रह्लाद. यन्ति। तथा घनो निबिडोऽपराप्रतिहतो नन्दकनामा खड़ो येषां ते।च पुनः किंभूताः। काममतिशयेन रामा मनोज्ञा शोभा येषां ते। तथा कामः प्रद्युम्नः रामो बलभद्रः ताभ्या शोभा येषां ते॥
तुरस्वरैश्चित्कृतिभी रथानां हयालिहेषागजगजितैश्च । नृणां स्तवादिध्वनितैर्वतीन्दोः श्लोकैरिवापूरि समग्रलोकः ॥ ७३ ॥