SearchBrowseAboutContactDonate
Page Preview
Page 874
Loading...
Download File
Download File
Page Text
________________ १६ सर्गः] हीरसौभाग्यम् । निजस्य बहलीभवत्यपि महोत्सवे द्वारि मां ___ जना असहजा इव प्रतिपदं निबध्नन्त्यमी । जहीति मम दुःखितां किमिति वक्तुकामं प्रभोः पुरः स्थितमुपेत्य यजिननिकेतने तोरणम् ॥ ११ ॥ यद्यस्मिन् जिनस्याहतो निकेतने गृहे मूलविहारे उपेत्य कुतश्चिदागत्य तोरणं . स्थितं तिष्ठति स्म । उत्प्रेक्ष्यते-प्रभोः ऋषभदेवस्य पुर इत्यमुना प्रकारेण वक्तुकामं कथयितुमीहमानं किं स्थितमिव । इति किम् । हे प्रभो, निजस्यात्मनः निजस्यात्मीयस्य वा कस्यचिन्महोत्सवे अतिशायिनि महे बहलीभवति सान्द्रे निबिडे निरन्तरं जायमाने सति असहजा वैरिण इवामी भूमीलोकवर्तिनो लोका मां तोरणं प्रतिपदं स्थाने स्थाने गृहद्वारि बहिस्तान्मार्गे वा निबध्नन्ति इत्यमुना प्रकारेण विद्यमानां मम दुःखमस्यास्तीति दुःखी दुःखिनो भावों दुःखिता तामसुखवत्ता जहि व्यापादय । निवारयेति यावत् ॥ इति तोरणम् ॥ . यदीयविभवैः पराजितजगत्रयस्पर्धिभिः खकीयमुपदीकृतं विजितवैजयन्तेन किम् । . दधार मणिमण्डपं किरणखण्डिताखण्डरु ... . क्प्रचण्डरविमण्डलं वृषभतीर्थकृन्मन्दिरे ॥ १२ ॥ वृषभतीर्थकृतो युगादिदेवस्य मन्दिरं कर्तुः किरणैः प्रतिदिशं प्रसरजोतिर्दण्डैः खण्डितं तिरस्कृतमखण्डाभिरक्षताभिः क्वचिदप्यप्रतिहताभिः रुग्भिः प्रचण्डं दुरालोकं रवेर्भास्करस्य मण्डलं बिम्बं येन तादृशं मणिमण्डपं विविधरत्नघटितजनाश्रयं दधार धत्ते स्म । उत्प्रेक्ष्यते-पराजिताः पराभवं लम्भिता जगत्रय्यास्त्रैलोक्यस्य त्रिभुवनसं. बन्धिनः स्पर्धिनस्तुल्यविभवत्वेन संघर्षणशीला यैस्तादृशैर्यदीयविभवैः ऋषभदेवप्रासादसंबन्धिभिर्विभ्रमैः शोभातिशयैर्विजितेन परिभवं नीतेन वैजयन्तेन इन्द्रप्रासादेन उपदीकृतं ढौकितं खकीयमात्मसंबन्धिनमत्कि मणिमण्डपमिव ॥ अनन्यशिवकन्यकां मनसि धर्मभूमीभृता प्रदातुमिह कासतोचितवराय कस्मैचन । स्वयंवरणमण्डपं मणिसुवर्णचित्रश्रिया श्चितः किमु विधापितः स्फुरति यन्महामण्डपः ॥ १३ ॥ यस्य मूलप्रासादस्य महान् गगनाङ्गणालिङ्गी मण्डपः स्फुरति शोभते । उत्प्रेक्ष्यतेअनन्यामसाधारणी सर्वातिशायिनी शिवकन्यकां मुक्तिकुमारिकां कस्मैचनानिर्दिष्टनाम्ने उचिताय भव्यादिसामग्रीभृते योग्याय वराय प्रधानाय परिणयनकामाय पुरुषाय इद्द
SR No.002262
Book TitleHeer Saubhagya Mahakavyam
Original Sutra AuthorN/A
AuthorDevvimal Gani, Shivdatta Pandit, Kashinath Sharma
PublisherKalandri Jain S M Sangh
Publication Year1985
Total Pages980
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy