SearchBrowseAboutContactDonate
Page Preview
Page 851
Loading...
Download File
Download File
Page Text
________________ ७९० काव्यमाला। ___ तदा तस्मिन् संघप्रस्थानावसरे इह जगति अखिलाः समस्ता अपि दिशां हरितां प्रदेशाः भूमिभागाः सुखं शर्मातिशयं दधुर्वृतवन्तः । कुतः । स्वस्मिन्नात्मनि विषये वर्तन्ते तिष्ठन्तीत्येवंशीलास्तथाविधा अनेकजातीया ये असुमन्तः प्राणिनः जनाः सखज. नगजवाजिकरभमहिषवृषभप्रमुखास्तेषां प्रकराः समुदायास्तैः कृत्वा कीलनास्ताडनाः पीडाः ताभ्यो विश्रमः क्षणमात्रं खस्थीभवनं ताडनाद्विरमणं तस्मात्सकाशात्कैर्विश्रमः शत्रुजयाचलं प्रति परिजनेन स्वखसमस्तपरिवारेण समं प्रचलितैः प्रस्थितैर्जनैः धा• मिकलोकैः । उत्प्रेक्षते-शत्रुजयम् । शिवश्रियो मोक्षलक्ष्म्या अवनीवलये भूमीमण्डले. शालते शोभते इत्येवंशीलं लीलाचलं क्रीडाकरणार्थ पर्वतमिव ॥ महेन्द्रमिहिराङ्गजाम्बुनिधिधामपौलस्त्यदि क्पथेषु पृथु पप्रथे प्रथितजन्तुसाथैस्तथा । तिलैन जगतीतलं क्वचिदलम्भि कीर्णैर्यथा वसानमिव मानसर्जनमनोरथस्फूर्जितैः ॥ १३ ॥ प्रथितैः सकर्तव्यैः सद्गुणैर्वा जगति विख्यातिमद्भिर्जन्तूनां भविकप्राणिनां साथैः । 'संघसार्थों तु देहिनाम्' इति हैम्याम् । वृन्दै: 'पान्थसाथैः' इति पाठे तु पान्थाः विमलगिरिमार्ग प्रति स्थायुकास्तेषां प्रकरैरिति । महेन्द्रः शक्रः मिहिरः सूर्यः तस्याङ्गजो नन्दनो यमस्तथाम्बुनिधिधामा वरुणस्तथा पौलस्त्यो धनदस्तेषां दिशो हरितः पूर्वा, पश्चिमा, दक्षिणा, उत्तरा, तासां पथेषु मार्गेषु पृथु विस्तीर्ण विपुलं यथा स्यात्तथा तेन प्रकारेणातिबाहुल्येन पप्रथे विस्तृतम् । यथा येन प्रकारेण विकीर्णैर्विक्षिप्तस्तिलैः स्नेहधारिधान्यविशेषैः क्वचित्कुत्रापि स्थाने जगतीतलं भूमण्डलं नालम्भि न प्राप्तम् भूमेरुत्सङ्गो न लेभे जनमस्तकेध्वेवातिष्ठत् । विक्षिप्तास्तिलाः क्षितौ नापतन्नित्यर्थः । किमिव । अवसानमिव । यथा मानसैनिःसंबन्धिभिर्जनानां मनोरथानामभिलाषाणां स्फूर्जितैविलसितैरवसानं प्रान्तो न प्राप्यते संसारिणां प्राणिनामवसानमेव नास्ति । 'इच्छा हु आगाससमा अनन्तया' इत्युत्तराध्ययनोतः॥ चलत्सु विमलाचलं निखिलयात्रिकेष्वोजसा पुरस्त्वरितमैयरुः क्वचन केचिदुत्कण्ठिताः । गृहीतुमनसः शिवश्रियमिवागमेनाग्रतः खयं प्रथमतः परेष्विव धनार्थिनोऽर्थप्रथाम् ॥ १४ ॥ कचन कुत्रचित्स्थाने उत्कण्ठिताः श्रीशजययात्राजिनदर्शनोत्सुकितचेतसः केचन पुरुषा ओजसा बलेन कृत्वा त्वरितं शीघ्रं पुरः संघजनाग्रे केषांचिजनानामपेक्षया वा ऐयरुः आगताः । केषु सत्सु । क्रमादनुक्रमेण श्रेण्या दिपरिपाच्या निखिलेषु सर्वेषु यात्रिकेषु जनेषु विमलाचलं शत्रुजयशैलं प्रति चलत्सु प्रतिष्टमानेषु सत्सु । उत्प्रेक्ष्यते-.
SR No.002262
Book TitleHeer Saubhagya Mahakavyam
Original Sutra AuthorN/A
AuthorDevvimal Gani, Shivdatta Pandit, Kashinath Sharma
PublisherKalandri Jain S M Sangh
Publication Year1985
Total Pages980
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy