________________
१५ सर्गः] हीरसौभाग्यम् ।
सुखमनिमिषलेखाः संनिषण्णैणनामी
सुरभिमणिशिलाङ्कान्साङ्गनाः संश्रयन्ते ॥ २९ ॥ अनिमिषाणां देवानां लेखाः पतयः सुखं सातं यथा स्यात्तथा अत्र शत्रुजयादी संनिषण्णाः सम्यगुपरि उपविष्टा ये एणाः कस्तूरिकामृगास्तेषां नाभीमितुन्दपिकाभिः सुरभयः कस्तूरिकोत्पत्तिस्थानसंपर्कात्सुगन्धा या मणीनां रनमयाः शिलाखासामानुत्सङ्गान् संश्रयन्ते । किंभूताः । अनिमिषाः साहनाः खखयुवतीसखाः । उत्प्रेक्ष्यतेकृप्तान् रचितान् पुष्पपल्लवादिविच्छित्तिकलितान् तल्पान् पल्यङ्कानिव । किंभूतान् । निकटयोरुभयोः पार्श्वयोविटपिनोविनिद्रद्रुमास्तेषु पत्रिणां विविषविहंगमानां वाताः प्रकारास्तेषां वाताः उड्यनोपवेशनगमनागमनसमयविधूतपक्षपवनैः प्रकर्षेण पतन्तीत्येवंशीलानि । तथा स्मितानि विकसितानि किसलयानि पल्लवाः पुष्पाणि कुसुमानि येषु तान् । अन्येऽपि तरुणीसहितास्वरुणाः पुष्पपल्लवरचनाश्चिते पर्यः सुखं मजन्ते ॥
क्वचिदपि सरिदम्मो गाहितुं साग्रहेण
द्विरदसमुदयेनोन्मादिनासिन्दिदीपे। कुलिशशयभयो-नष्टवार्षिप्रविष्टा
. . खिलशिखरिविभूषामिच्छताछेतुमूहे ॥ ३० ॥ अस्मिन् श्रीशत्रुजये क्वचिदपि कुत्रापि स्थाने द्विरदसमुदयेन विन्ध्यावत्तत्र कथंचिदुत्पन्नेन राजादीनां स्वेच्छया चरणार्थ मुक्केन वा गजयूथेन दिदीपे। किंभूतेन । उन्मादिना मदोदयमत्तीभूतेन । पुनः किंभूतेन । सरितः शत्रुजयाप्रमुखचतुर्दशमहानदीषु कस्याश्चिन्नद्याः अम्भो जलं गाहितुं मध्ये प्रविश्य सलिलकेलि कर्तुं साग्रहेण सहठेन निर्बन्धवता । तत्राहमेवमूहे वितर्कयामि । कुलिशं वजं शये पाणौ यस्य स शकस्तस्य भयेन भीतेर्वशेन उर्व्याः पृथिव्याः सकाशानष्टाः पलायिताः सन्तो वार्षों
खप्राणतादृगपरस्थानाभावात्तद्धातृसकललोकपालकपुरुषोत्तमनिवासस्थाननीरनिधिमध्ये . प्रणश्य प्रविष्टाः अखिलाः समग्रा ये शिखरिणः शैलास्तेषां विभूषां शोभामाछेत्तुं हठा. गृहीतुमिच्छता वाञ्छतेव ॥
क्वचिदुदरशयालून्प्रौढगर्मान्महेला ... इव दधति वरेन्दोः कंदराः सिंहशावान् । अपि बभुरिह नागाः प्रेषिता यत्प्रसत्त्यै
निजगरिमजितेनेवाञ्जनेनात्मशृङ्गाः ॥ ३१ ॥ क्वचित्कुत्रापि प्रदेशे धरेन्दोः शत्रुजयशैलराजस्य कंदराः गुहाः सिंहशावान् केसरिकिशोरान्दधति बिभ्रति।का इव । यथा धरेन्दोः पृथिवीनिशीथिनीनाथस्य महेला नित