SearchBrowseAboutContactDonate
Page Preview
Page 798
Loading...
Download File
Download File
Page Text
________________ १४ सर्गः] - हीरसौभाग्यम् । दराय न्यवेदयत्कथयांचकार । क इव । आप्त इव । यथा विश्वस्तः केनचित्कथितं सर्व वृत्तान्तं निवेदयति । किंभूतस्य हमाउंसूनोः । उद्वेलो वेलामतिकान्तोऽतिप्रवृद्धः कृपारूप: पयोधिः समुद्रो यस्य यस्मिन्वा ॥ इति शान्तिचन्द्रोपाध्यायगुर्जरागमनं फुरमानदानं च ॥ श्रीमत्पर्युषणादिना रविमिताः सर्वे रवेर्वासराः सोफीयानदिना अपीददिवसाः संक्रान्तिघस्राः पुनः । मासः स्वीयजनेर्दिनाश्च मिहिरस्यान्येऽपि भूमीन्दुना . हिन्दुम्लेच्छमहीषु तेन विहिताः कारुण्यपण्यापणाः ॥२७३॥ तेन भूमीन्दुना वसुधासुधांशुना अकब्बरेण हिन्दुम्लेच्छमहीषु राजपुत्राणां यवनानां च भूमीषु आर्यानार्यदेशेष्वपि एते प्रोच्यमाना दिना कारुण्यपण्यानां कृपाक्रयाणकाणामापणा विपणयो हटा विहिताः कृताः । तानेव दिनान्दर्शयति-रविमिर्मिताः सूर्यप्रमाणा द्वादश श्रीमत्याः पर्युषणायाः सांवत्सरिकपर्वणः । पुनः सर्वे समस्ता अपि रवेरादित्यस्य वासराः । द्वादशमाससंबन्धिनो निःशेषा आदित्यवारा इत्यर्थः । अपि पुनः सोफीयानदिना यवनजातिप्रसिद्धाः । अपि पुनरीदस्य दिनास्तेऽपि यवनेष्वेव प्रसिद्धाः । पुनः संक्रान्तीनां मेषादिकानां सूर्यसंक्रमणानां घस्रा दिवसाः । पुन: खीय. जनेः स्वकीयजन्मनः संवन्धी मासः । तथा मिहिरवासरास्तेऽपि यवनजातिष्वेव वि. ख्याताः । अपि पुनरन्ये अपरेऽपि दिना वासराः ॥ तेन नवरोजदिवंसास्तनुजजनू रजबमासदिवसाश्च । विहिता अमारिसहिताः सलतास्तरवो घनेनेव ॥ २७४ ॥ तेनाकबरेण नवरोजस्य क्रीडाविशेषस्य दिवसाः, तथा तनुजानां पुत्राणां जनुषां जन्मनां मासाः, तथा रजबमासस्य दिवसाः । नवरोजः रजबमासश्च यवनेष्वेव प्रसिद्धौ। अमारिसहिता विहिताः जीवदयाकलिताः कृताः। केनेव । घनेनेव । यथा वार्षिकवारिदेन तरवः पादपाः सलता वल्लीसमालिङ्गिता विधीयन्ते ॥ .... गुरुवचसा नृपदत्तासाधिकषण्मास्यमारिरभवदिति। . तत्तनुजैरपि दत्ताधिकवृद्धिं व्रततिवद्भेजे ॥ २७५ ॥ गुरोहीरविजयसूरेर्वचसा वर्गकुसुमापवर्गफलप्रदायिदयालताद्वैतमाहात्म्योपदेशकवाक्येन नृपेणाकब्बरेण दत्ता स्वदेशेषु च प्रवर्तिता साधिका षड्भिर्वासरैरधिका षण्मासीं यावदमारिरिति दिनानुक्रमेणाभवद्बभूवुषी । अपि पुनस्तस्य तनुजैनन्दनैः सलेमसाहिमु १. दिनशब्दस्य नित्यनपुंसकत्वेन पुंस्त्वघटितोऽयं प्रयोगश्चिन्त्यः, अद्यजन्तत्वात्पुंस्त्वं वा कल्प्यम्.
SR No.002262
Book TitleHeer Saubhagya Mahakavyam
Original Sutra AuthorN/A
AuthorDevvimal Gani, Shivdatta Pandit, Kashinath Sharma
PublisherKalandri Jain S M Sangh
Publication Year1985
Total Pages980
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy