________________
१४ सर्गः] हीरसौभाग्यम् ।
७३५ उत्तंसैरिव पत्कजैः शिवपुरी संप्राप्य भूषां परां ___ प्रासादे च चतुर्मुखे ध्रुव इव श्रीमन्महोक्षध्वजम् | चैत्येऽन्यत्र पुनर्गजध्वजजिनं बिम्बैरनेकैः समं
प्रत्यस्थापयदासपालविलसन्नताप्रणीतोत्सवैः ॥ २६७ ॥ स हीरसूरिः ध्रुव इव ब्रह्मणीव चत्वारि मुखानि आननानि यस्य तादृशे प्रासादे विहारे श्रीमन्तं त्रैलोक्यलक्ष्मीकलितं महोक्षध्वजं वृषभकेतनमादिनाथं पुनरन्यत्र चैत्ये जिनगृहे गजध्वजं हस्तिलाञ्छनमजितनाथं जितं तीर्थकरं प्रत्यस्थापयत्प्रत्यतिष्ठिपत् । कथम् । समं सार्धम् । कैः । अनेकैः शतसंख्यैबिम्बैर्जिनप्रतिमाभिः । कैः। आसपालनात्रा संघपतिना तथा विलसता शोभमानेन नेतानामसाधुना प्रणीतैः कृतैरुत्सवैः महामहैः । आसपालसंघपतिना चतुर्मुखप्रासादे आदिनाथस्य प्रतिष्ठा कारिता, नेताकेन श्रीअजितनाथचैत्ये श्रीअजितनाथस्य प्रतिष्ठा निर्मिता इति तत्त्वम् । किं कृत्वा । उत्तंसैः शेखरैः इव पत्कजैः चरणारविन्दैः शिवपुरीं श्रीरोहिणीनगरी परां प्रकृष्टां भूषां शोभा संप्राप्य लम्भयित्वा । ण्यन्तत्वाद्विकर्मकत्वम् ॥
आरुह्यार्बुदभूधरं जिनपतीन्नत्वा पुनर्गुर्जरा
न्प्रस्थातुं स्पृहयन्महीपतिसुरत्राणेन मन्त्रीश्वरैः । आगृह्यायममारिनिर्मितिकरव्यामुक्तिपूर्व समा
इतो भूषितवांस्ततः शिवपुरीं वर्षागमे सूरिराट् ॥ २६८ ॥ ततः प्रतिष्ठाकरणानन्तरमयं सूरिराट् हीरविजयसूरीन्द्रो वर्षागमे चतुर्मासके शिवपुरी पुनर्भुषितधानलंकरोति स्म । किंभूतः। महीपतिना सुरत्राणनाम्ना नृपेण मन्त्रीश्वरैः खमुख्यप्रधानपुरुषैः सकलेऽपि खमण्डले अमारिनिर्मितिर्जीवदयापालनं तथा कराणां राजदे. योशानां जनदण्डानां च व्यामुक्तिर्मोचनं पूर्व यथा स्यात्तथा। यावन्तं समयं श्रीपूज्या मन्नगरीमलंकरिष्यन्ति तावत्कालं मदीयाखिलमण्डले अमारि तथा जनेषु करदण्डमो. चनं करिष्यामीति वाग्बन्धपूर्वकमित्यर्थः । आगृह्याग्रहं कृत्वा मन्त्रीश्वरैः खप्रधानपुरुषैः समाहूतः सम्यकप्रकारेण संमानदानपूर्वकमाकारितः । सूरिराट् किं कुर्वन् । अर्बुदभूधरं हिमाद्रिनन्दनशैलाधित्यकामारुह्याध्यास्य पुनर्जिनपतीन् चैत्येषु भगवत्प्रतिमां नत्वा प्रणम्य पुनर्गुर्जरान् गुर्जरजनपदं प्रति प्रस्थातुं स्पृहयन् । पुनःशब्दो घण्टालालान्या. येनोभयत्रापि योज्यते ॥ इति शिवपुर्या प्रतिष्ठाद्वयपूर्वकं चतुर्मासकम् ॥
हेमसूरीश्वरेणेवाणहिल्लपुरपत्तनम् ।
क्रमाद्विहरता तेनालंचके व्रतिचक्रिणा ॥ २६९ ॥ क्रमाचतुर्मासकप्रतिक्रमणानन्तरं पारणके विहरता क्रमादाभानुग्रामं सुखं सुखाद्वा