SearchBrowseAboutContactDonate
Page Preview
Page 791
Loading...
Download File
Download File
Page Text
________________ काव्यमाला। यात्रां कृत्वात्र सुत्रामा यथा नन्दीश्वरे दिवम् । प्रभुर्विभूषयामास पुनरप्यागरापुरम् ॥ २५३ ॥ प्रमुः सूरिरत्र गोपनिरौ यात्रां जिनपादप्रणतिं कृत्वा भावविधिपूर्व विधाय पुनरपि व्याघुट्य तदेवागरानाम नगरं विभूषयामासालंकृतवान् । दृष्टान्तमाचष्टे-यथा सुत्रामा सौधर्मेन्द्रः नन्दीश्वरे जम्बूद्वीपादष्टमे द्वीपे भगवत्कल्याणकादिकाष्टाहिकादिषु यात्रां गीतनृत्यकारापणादिमहोत्सवं निर्माप्य पुनरपि दिवं खोके भूषयति ॥ इति गो. पगिरियात्रा ॥ यः सेरद्विकखण्डलम्भनिकया ख्यातोऽखिले मण्डले ___ श्रद्धावानिह मेदिनीपुरसदारङ्गः प्रभोर्भक्तितः । सोऽदान्मूर्तमिवेन्द्रकुम्भिनमिभं लक्षप्रसादं पुन हिानां नवतिं च काञ्चनमणीखांशुकाद्यर्थिनाम् ॥ २९४ ॥ तस्मिन्नवसरे इहागरानगरे सः दानशक्क्या प्रसिद्धो मेदिनीपुरस्य मेडतानगरस्य वास्तव्यः सदारङ्गनामा श्रद्धावान् श्रावकः प्रभोः सूरीन्दोरुपरि भक्तितः भक्तिवशादागातिशयात् । अर्थिनां याचकानामिति सर्वत्र योज्यम् । मूर्ते मूर्तिमन्त्रं भूमावागतमिन्द्रकुम्भिनमैरावणमिव इभंगजोचितपरिकरादिकलितकरिणमदाद्ददौ । पुनर्लक्षप्रसादं 'लाखप. साय' इति जनप्रसिद्धिः च पुनर्वाहानां जात्यतुरङ्गाणां नवतिं नवतिप्रमाणानश्वान् ददिवान् । पुनः काञ्चनैः सुवर्णैर्मणीभिः रत्नैः उपलक्षिता स्वर्ण मुद्रा अङ्गुलीयकानि । 'साक्षराङ्गुली मुद्रा' इति हैम्याम् । 'वेढवीटी' इति प्रसिद्धा । तथा अर्थिनां अंशुकानि नानाविधवस्त्राणि । आदिशब्दादुर्णायवः 'सखलातपामरी' इति जनप्रसिद्धाः । दत्ते स्म । श्रूयते हि-कस्मिन्नपि व्यतिकरे पातिसाहिमार्गणेन सूरीन्द्रः करीन्द्रमज्ञानाद्याचितः । तदवसरे च करिराजसमर्पकं सकलसंघमनुनीय सदारङ्गसाधुः खयमेव श्रीहीरविजयसूरीन्दोरुपरि न्युञ्छनं निर्माय तस्य साहिडुम्वकस्य सर्वगजोपकरणपरिकलितं गजं परस्, कस्यापि तादृशस्य लक्षप्रसादमन्येषां च नवति तुङ्गत्तुरङ्गमानां परेषां च वस्त्रस्वर्णमणिभूषणौर्णायुप्रमुखं प्रदत्तवानिति । स कः । यः सदारङ्गश्राद्धः सेरयोलोकप्रसिद्धयोर्मानविशेषयोकिं युगलं तन्मितानां खण्डानां मधुधूलीनां लम्भनिकया प्रतिमथनप्रदानेनाखिले मण्डले ख्यातः प्रसिद्धिमान् जातोऽस्ति ॥ इति श्रीहीरविजयसूरिश्राद्धदानम् ॥ मुक्त्वामात्यमिवावनीशसविधे शान्त्यादिचन्द्राभिधो___पाध्यायं प्रविधाय तत्र विषये वर्षाश्चतस्रः स्वयम् । श्रीकम्मातनयतीन्द्रविलसत्संघाग्रहाद्गुर्जरा द्च्छन्नागपुरे म तिष्ठति चतुर्मासी स नागेन्द्रवत् ॥२५॥ स सूरि गपुरे नगरे प्रसिद्ध नगरे चतुर्मासी वर्षासमयं तिष्ठति स्म । किंवत्। नागे
SR No.002262
Book TitleHeer Saubhagya Mahakavyam
Original Sutra AuthorN/A
AuthorDevvimal Gani, Shivdatta Pandit, Kashinath Sharma
PublisherKalandri Jain S M Sangh
Publication Year1985
Total Pages980
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy