SearchBrowseAboutContactDonate
Page Preview
Page 786
Loading...
Download File
Download File
Page Text
________________ १४ सर्गः] हीरसौभाग्यम् । ७२५ वादाली किमाललाप तदेवाहवादाल कुद्दालवदानने किं दंष्ट्राः स्फुटीकृत्य सुखेन शेषे । गम्भीरताभिश्चुलुकीकृताब्धेस्त्वद्भानुसूनुर्यदुपैति भूपः ॥ २३८॥ हे वल्लभ वादाल सहस्रदंष्ट्र, आनने खमुखे कुद्दालवद्भूखननोपकरणविशेषानिव । 'कोदालाः' इति लोके प्रसिद्धाः। दंष्ट्रा दाढाः स्फुटीकृत्य विकाश्य सुखेन जलशयेन किं कथं शेषे निद्रायमाणो वर्तसे । यत्कारणात् त्वद्भानुसूनुः तव भवतो भानोरादित्यस्य सनुर्नन्दनो धर्मराजो वर्तते त्वद्वधकः अकब्बर उपैति समागच्छति । सोऽलपत्-भद्रे, अहं समुद्रमध्ये, तन्मां कथं मारयिष्यति । अत एव सा वक्ति । किंभूतः साहिः। गम्भीरताभिः खगाम्भीर्यैः चुलुकीकृतः गण्ड्षमात्राम्भोविहितोऽब्धिः समुद्रो येन । कुम्भोद्भववत्पीतपयोनिधिस्तत्कथमात्मानं रक्षसि ॥ युग्मं संगत्या न क्रियया ॥ स माहेति सहस्रदंष्ट्रमहिलामालिङ्गय लीलालसो ___मा गाः साध्वसमध्वराशनपतेः पाथोधिनेमेरतः । श्रीमत्सूरिगिरा महाव्रतिवपुःपाथोनिशोपासना प्रोद्भूतप्रणयादिव प्रियतमे नास्मान्हिनस्ति प्रभुः ॥ २३९॥ लीलयां विलासेन नर्मणा वा मन्थरोऽपरकर्मण्यलसः सहस्रदंष्ट्रमहिलां खां प्रियां वादालीमालिङ्गय खहृदयेन दयिताहृदयं गाढमाश्लिष्य स वादाल इति आह स्म ब्रूते स्म। हे प्राणितप्रियतमे भीरु, अतोऽस्मादकब्बरात् पाथोधिनेमेर्जलधिचक्रवालाया वसुधाया अध्वराशनपतेर्यज्ञभोजनप्रभोरिन्द्रस्य अध्वरा यज्ञा अशनं भोजनं येषां तेषां देवानां पतिः खामी तस्माद्भूमीन्द्रात् साध्वसं भयं मा गा मा व्रज । यस्मात् श्रीमत्सूरेगिरा वाक्यात् स प्रभुः साहिरस्मान्न हिनस्ति नालभते । उत्प्रेक्ष्यते-महान्ति सर्वोत्कृष्टानि मेरुवद्धर्तुमशक्यानि यस्य तादृशस्य सूरेरन्यस्य कस्यापि साधो नाम्ना वशंकरस्य महाव्रतिनो वपुः शरीरं यत्पाथः पानीयं तस्यानिशं निरन्तरं या उपासना सेवा ततः प्रोद्भूतः प्रकटो जातः प्रणयः स्नेहः प्रेमातिरेकस्तस्मादिव ॥ इति वादालमिथुनालापः ॥ नक्राद्यानुपसृत्य तत्प्रियतमा इत्यूचुरातङ्किताः ... कीलालेष्विव लोलुपाशयतया हन्ता नृनेतात्मनाम् । तेऽप्याख्यन्निति वज्रबाहुनृपवद्गोपायति मापति र्जन्तूञ्जन्तुपितामहः स करुणाकल्लोलिनीवल्लभः ॥ २४० ॥ नका जलयादोविशेषाः कुम्भीराः मत्स्यजातयस्ते आद्या आदिभूता येषां येषु वा ते नकचक्रपाठीनकुम्भीरालस्यकुम्भीमहामुखप्रमुखानुपसृत्य समीपमागत्य आतङ्किता भूपतेभीतिव्याकुलीभूतास्तेत्प्रियास्तेषां नकादीनां पत्न्यः इत्यमुना प्रकारेणोचुः कथयांचक्रुः । इति किम् । हे प्राणवल्लभाः, नृनेता नरपतिरकब्बरः आत्मनां यावदात्मजातिजन्तूनां
SR No.002262
Book TitleHeer Saubhagya Mahakavyam
Original Sutra AuthorN/A
AuthorDevvimal Gani, Shivdatta Pandit, Kashinath Sharma
PublisherKalandri Jain S M Sangh
Publication Year1985
Total Pages980
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy