________________
७२४
काव्यमाला।
__ अनिमिषी मत्स्यी इन खकान्तं मीनं मत्स्यमिति न्यगददाचल्यो । हे मीन, रमणी. सखः बहुस्नीकत्वेन खान्यनारीकलितः किमु कथं रमसे सलिले स्वेच्छया क्रीडसि बहु. मत्स्यीभिः सार्धे विलससि । केन । सुखेन शर्मणा । निरपायं क्रीडानिषेधहेतुमाह-हे अनय, न विद्यते नयो निजकुलक्षयकारित्वेन न्यायो यस्मिन् । 'मत्स्यगलागलिन्याय जेह जेह नइ पहुचइ ते हनइ खाय' इति लोकवार्ता । तथा न्याय एवागाधत्वात्पयोधिः समुद्रस्तस्य पारदृश्वा पारगामी नीतिभिः रामचन्द्रो भूपतिस्त्वां भवन्तं हनिष्यति कृ. तान्तनिकेतनातिथेयीं ग्राहयिष्यति । उत्प्रेक्ष्यते-कुलस्य खवंशस्य वैरितया संहार. कत्वेन किमु यः कुलसंहारकृत्सोऽवश्यं खांहसैव निहन्यते । तथा चोक्तं नैषधे-'अबलखकुलाशिनो झषान्निजनीडद्रुमपीडिनः खगान् । अनवद्यतृणार्दिनो मृगान्मृगया. घायनभूभृतां नताम्' इति शैवपुरोहितमत्रिवचसा नृपस्त्रयाणामपि मृगयां करोति ॥ तिमिरिति कान्तां मदनविनोदी वदति मुनीन्दोर्वचनविलासात् । .. अनिमिषभावादिव विनिहन्तुं धरणिसुधांशुः प्रभवति नास्मान् ॥२३६॥ मदनेन कामेन मदनादनहोदयाद्वा विनोदो विलासः स्वेच्छया . विविधचेष्टा कामक्रीडा सुरतादिर्वा अस्यास्तीति मदनविनोदी तिमिर्मत्स्यः कान्तां वप्रेमवतीं लीलावती मत्स्यी प्रति इति वदति जल्पति । हे प्रिये, मुनीन्दोः साधुसुधाकरस्य वचनविलासात्कृपाप्रपश्चाश्चितवाचां वैचित्र्यात् धरणिसुधांशुरचला चक्रचन्द्रमाः साहिरस्मान्विनि हन्तुं न प्रभवति न समर्थी भवति । धरणिशब्दो इखोऽपि दृश्यते नाटकशास्त्रे । यथा'प्राचीमागे धरणिविरहिणि क्रान्तमुद्रे समुद्रे' इत्यादि । तथा च वाग्भटालंकारे-'मुदा यस्योद्गीतं सह सहचरीभिर्वनचरैर्मुहुः श्रुत्वा हेलोद्धृतधरणिभारं भुजबलम् । दरोगच्छद्द करनिकरदम्भात्पुलकिताश्चमत्कारोद्रेकं कुलशिखरिणस्तेऽपि दधिरे ॥' इति । उत्प्रेक्ष्यते-अनिमिषभावाद्देवत्वादिव । 'अनिमिषो देवमीनयोः' इत्यनेकार्थः । देवदेव्यो हि मनुष्येण हन्तुं न शक्यन्ते ॥ इति मत्स्यमिथुनालापः ॥ व्याधेन वेधीकृतकाययष्टी मृगीव तत्साध्वसधावमाना। त्रासातिमात्रास्थिरनेत्रपत्रा वादालबालेत्यलपत्प्रियं स्वम् ॥ २३७ ॥ वादाल: सहस्रदंष्टः मत्स्यविशेषस्तस्य बाला स्त्री खं प्रियमात्मीयं वल्लभमित्यलपन्निगदति म । किंभूता। धावमाना पलायमाना प्रणश्यन्ती । केन । तत्साध्वसेन तस्मान्मृ. गयो राज्ञो भयेन कीनाशदासीकरणातङ्केन । पुनः किंभूता । त्रासादाकस्मिकभयादतिमात्रमतिशयेनास्थिरे चञ्चलतमे नेत्रपत्रे विलोचनदले यस्याः । केव । मृगीव । यथा व्याधेन लुब्धकेन वेधीकृता शरव्या विहिता । 'रुषा शरव्याकरणे दिवौकसाम्' इति नैषधे। यकारसहितस्यापि च्चिप्रत्ययः । काययष्टी तनुलता यस्याः तादृशी मृगी सारङ्गी व्याधस्य भयेन प्रणश्यन्ती त्रासान्नितान्ततरललोचना स्यात् ।।