________________
७१७
१४ सर्गः) हीरसौभाग्यम् ।
इति काचिदुवाच हयद्विषती प्रमदं प्रिय मुञ्च सचिन्त इव । भुजमूर्धविरोधितयेव यतः प्रणिहन्तुमना अयमेति नृपः ॥ २१६ ॥ काचित् हयद्विषती वनखण्डमहिषी । 'महिषो यमवाहनः । रजस्वलो वाहरिपुः' इति हैम्याम् । इत्यमुना प्रकारेण उवाच भाषते स्म । इति किम् । हे महिष प्रिय, सचिन्त इवात्यार्तियुक्त इव प्रमदमानन्दं मुश्च त्यज । यतः कारणात् प्रणिहन्तुमनाः त्वा घात. यितुकामः अयमतिभयात्प्रत्यक्ष इव लक्ष्यते साक्षादकब्बरः नृपो राजा समेत्यायाति । उत्प्रेक्ष्यते-भुजमूर्धविरोधितया स्कन्धश्रीस्पोद्भूतवैरित्वेनेव । 'स्कन्धयों वृषरताक्ष. स्कन्धोपमः' इति काव्यकल्पलतायाम् ॥
इत्यवक्सोऽपि कान्तेऽधृतिं भूपतेर्मा कृथा यन्निदेशेन सूरीशितुः । सोऽप्यवद्येन नश्चक्षुषा नेक्षते यानभावेन बिभ्यत्कृतान्तादिव ॥२१७॥ सोऽपि हयद्विषन् महिषोऽपि इत्यमुना प्रकारेण अवक् जगाद । हे कान्ते सैरभि, भूपतेरकबरात्सकाशादधृतिमखास्थ्यम् । भीति मित्यर्थः । मा कृथा मा कुर्याः । 'माडि लुङ्,' माङ्योगे लुङ् स्यात्। 'मा कार्षीत् । लुङ्शब्देन भूते सिः' इति प्रक्रियाकौमुद्याम् । तथा च हेमचन्द्रः-'मा कार्षीत्कोऽपि पापानि मा च भूः कोऽपि दुःखितः' इति वच. नाद्भविष्यदर्थे भूते सिप्रयोगः । यत् यस्मात्कारणात् सूरीशितुः हीरविजयसूरीन्द्रस्य निदेशेनानुशिष्टया नोऽस्मानवद्येन पापेनासमीचीनेन चक्षुषा नेत्रेण नेक्षते न पश्यति किं पुनर्वधेच्छया तन्मा शङ्कख ·। उत्प्रेक्ष्यते-यानभावेन वाहनत्वेन कृतान्ताद्वि.भ्यदिव । स्ववाहनपरिभवं विभाव्य ममोपरि मा कुप्यादित्यन्तकाद्यं प्राप्नुवन्निव ॥
इति महिषमिथुनालापः ॥ : कापि प्रियं वदति वारणवैरिणीति
शेषे सुखं कथमहो गिरिगहरेषु ।
हन्ता नृपस्तव कलत्रकलतृलक्ष्मी. . स्पर्धाक्रुधा निजगजारितयाथ वा किम् ॥ २१८ ॥ ___ कापि वारणवैरिणी गजद्वेषिणी सिंही प्रियं स्वभर्तारं पञ्चाननं प्रति इति वदति । इति किम् । अहो कान्त केसरिन् , गिरिगहरेषु भूधराणां कंदरेषु घननिकुञ्जेषु वा यथा स्यात्तथा कथं केन प्रकारेण शेषे खपिषि। यस्मादित्यधिकारात्प्राक्तनमेव सर्वत्र गृह्यते। कारणान्नृपोऽकब्बरो मृगयारसिकतया तव भवतो हन्ता घातको व्यापादयिता वर्तते। उत्प्रेक्ष्यते-कलत्राणां वपत्नीनां कलत्रलक्ष्म्या कटितटीश्रिया सह स्पर्धा संघर्षस्तस्यास्तया वा या क्रुध् कोपस्तेन किम् अथ वा निजा आत्मीया ये गजा रणकरणधुरीणा वारणास्तेषामरित्वेन किं शत्रुभावेनेव ॥