________________
काव्यमाला।
चं पुनरमारिः प्रवर्तिता, अथ च सकलसत्त्वानां मिधश्च वार्ता प्रवृत्ता इति चशव्दार्थः । तत्र च व्यतिकरे तस्मिन्नेवाभारिप्रवर्तनसमये अत्राकब्बरभूमण्डले जगति वा अटव्यामरण्ये । उपलक्षणाद्वनग्रामादिसंग्रहः । तथा वियति आकाशे, तथा वारिणि स. लिले चरन्ति पर्यटन्ति इत्येवंशीला: एतावता वनचारिणो मृगादयः श्वापदाः । यदुक्कं पाण्डवचरित्रे-'कान्तारेऽत्र कृतान्तोऽपि श्वापदानामनापदाम् । त्वत्पुत्रभीतो नैतेषां प्रभवत्यपत्यवे ॥' इति । यद्यपि हैम्याम् 'पशुस्तिर्यक्चरे हिंस्रेऽस्मिन्व्याल: श्वापदोऽपि' इत्युक्तम् , तथापि अन्यत्र वन्यजीवाः सऽपि श्वापदा एवोच्यन्ते इति । वियञ्चारिणो मयूरादयः पक्षिणः, तथा जलचारिणो मीनादयः, तथा युवतिस्तरुणी जाया पत्नी येषाम् । 'जायाया निङ् । जायाशब्दस्य निङ्प्रत्ययः । तथा लोपो व्योर्वलि' इति सूत्रेण यकारस्य लोपः । पुंवद्भावः स्त्रीप्रत्ययस्य तेर्लोपः । युवजानयः तरुणीत्रीकाः ता. दृशा ये जन्मिनो जीवाः अधिकारात्पुमांस: तेषां मिथः परस्परं स्त्रीभिः सार्ध संकथा वार्ताः । त्वत्संकथापि जगतां दुरितानि हन्ति' इति. भक्तामरस्तवे । 'सं. कथा वार्ता' इति तद्वृत्तिः । जज्ञिरे जाताः प्रवृत्ताः । उत्प्रेक्ष्यते-विरहः स्त्रीभत्रोंः इतरेतरं वियोगः स एव दावो दावानलः तत्र वारिमुचां मेघानां. मालिका धोरणयः कादम्बिन्य इव ॥ अथ प्रथमं वनचारिणां वार्ताकाप्याचख्यौ प्रियमिति करिणी किं मत्तो मद्यप इव रमसे । नो जानीषे मृगयुमिव नृपं हन्तारं तद्रज गज गहनम् ॥ २१४ ॥ कापि अनिर्दिष्टनामा करिणी हस्तिनी प्रियं करिणमित्यमुना प्रकारेण ,आचख्यौ व. दति स्म । किमाचख्यौ तदेवाह-हे प्रिय हस्तिन् , मद्यपो मदिरापायीव मत्तोऽतिक्षीवः सन् रमसे मया सह क्रीडसि यद्यस्मात्कारणात् त्वं मृगयुमिव प्रबलाखेटककारिणममुं नृपमकबरसाहिं ते तव हन्तारं घातकं नो जानीषे नो वेत्सि काकूत्तया। तत्तस्मात्कारणात् हे गज 'जीवन्नरो भद्रशतानि पश्येत्' इति वचनात् गहनं गिरिगह्वरं प्रति व्रज मारणभयात्प्रणश्य याहि ॥
सोऽप्यवक्करिणि मा बिभीहि नः सूरिशासनवशान्न हन्ति सः। किं त्वनेकपतयो रणेषु मद्गोत्रिणामुपकृतिस्मृतेरिव ॥ २१५ ॥ सोऽपि गजोऽपि अवक् व्याचष्टे आख्यातवान् । हे करिणि, भीरुत्वात् भीरुकख. भावत्वात् च मा बिभीहि मनसि भयं मा नय । स: अकब्बरः सूरेहरिविजयगुरोः शासनस्योपदेशस्य क्शादायत्तत्वानोऽस्मान नैव हन्ति व्यापादयति । उत्प्रेक्ष्यते-अ. नेकान् बहून् पाति रक्षतीत्यनेकपस्तत्वेनेव उताथ वा रणेषु संप्रामाङ्गणेषु मगोत्रिणा मद्वंश्यानां मदेकवंशानां दा गजानामुपकृतेः परदलविदलनाद्युपकारस्य स्मृतेः संस्मरणादिव ॥ इति गजमिधुनालापः ॥