________________
काव्यमाला।
तिशीतरुचेर्मुनिमृगाङ्कस्य इत्यमुना बन्दिविहगादिमोचनद्वारा दयाया यावजगजन्तूपरि कृपाया उदयः प्रादुर्भावः गर्भे मध्ये जातोऽस्येति तद्दयोदयगभितं करुणाकलितं वचो विभुवाक्यं निशम्य श्रुत्वा । वचोऽपि किंभूतम् । गुणनिःस्पृहताशान्तरसादियुक्ततापरोपकारितादिभिरप्रतिममनुपमम् । किमिव । कवितृकाव्य मिव । यथा कवितुः कवेः काव्यं कवित्वं गुणैरुपमोत्प्रेक्षाप्रसादकान्तिश्लेषालंकारादिभिरप्रतिमं न विद्यते प्रतिमा प्रतिविम्बं यस्य तादृशं स्यात् ॥ मनसा साहिः किं प्रशशंस । तदेवाह
प्रावीण्यमन्यहितकर्मणि पश्यतैषां ___तथ्यं यतो व्यवसितिर्महतां परार्था । विश्वं शशीव धवलत्यखिलं कलाभि__रम्भोभरैर्जलधरोऽपि धरां धिनोति ॥ १८३ ॥ मूर्धा दधाति वसुधां भुजगाधिराजो.
नैःस्थ्यं निहन्ति मणिरध्वरभागभाजाम् । आमोदयन्ति हरितो हरिचन्दनानि
मिन्दन्ति संतमसमम्बरकेतवोऽपि ॥ १८४ ॥ साला दिशन्ति च फलानि पचेलिमानि .
वार्धर्वशा अपि वहन्ति पयःप्रवाहान् । , विश्वोपकारकरणैकनिबद्धक
रेभिर्बभूव वसुधा किमु रत्नगर्भा ॥ १८५ ॥ ___ एषाममीषां सूरीणामन्येषां खव्यतिरिक्तानां जन्तूनां हितकर्मणि इष्टनिर्मापणे प्रा. वीण्यं चातुर्य पश्यत भो लोकाः, विलोकयत । यतः कारणान्महतामुत्तमानां व्यवसितिर्व्यापारः प्रयत्नो वा परेषामेवार्थः प्रयोजनं यस्यास्तादृश्य इति । तथा सत्यां तदेव दर्शयति-शशी चन्द्रमाः कलाभिश्चन्द्रिकाभिः कृत्वा विश्वं जगद्धवलत्युज्ज्वलीकरोति। किंभूतं विश्वम् । अखिलं समस्तमपि । अपि पुनर्जलधरो मेघोऽपि अम्भोभरैर्वृष्टिरूपैः पयःसमूहैः कृत्वा धरां वसुधां भूमी धिनोति निदाघदाघनिवारणनवाङ्कुरनिकुरम्बकरणादिना प्रीणयति । पुनर्भुजगाधिराज: शेषनागेन्द्रो मूर्धा मस्तकेन वसुधां दधाति बिभर्ति । पुन. रध्वरभागभाजामध्वराणां यज्ञानां भागमंशं भजन्तीति देवाः ऋतुभुक्त्वात् । 'खाहाखधातुसुधाभुज आदितेयाः' इति हैम्याम् । 'मखांशभाजां प्रथमो निगद्यसे' इति रघौ । 'मुखं मखाखाद विदां वदन्ति' इति नैषधे । मखाखादविदां देवानां मुखं व. हिरित्यर्थः । 'बहिर्मुखा निमिषदेवतना किलेखाः' इति हैम्याम् । तेषां सुराणां मणि