________________
१४. सर्गः] हीरसौभाग्यम् । इयं तु पूज्येषु परोपकारिता प्रसादनीयं निजकार्यमप्यथ । तमूचिवानेष यदङ्गिनोऽखिलानसूनिवामि ततः परोऽस्तु कः॥१७९॥ हे सूरयः । तु इति विशेषद्योतकम् । अवधारयन्तु वा । 'तु विशेषेऽवधारणे' इत्यनेकार्थः । इयं बन्दिजनमोचनलक्षणा पूज्येषु भुवनजनाभ्यर्चनीयेषु श्रीमत्सु केवलं परोपकारिता परेषु आत्मव्यतिरिक्तेषु जीवेषु उपकारिता उपकारकरणशीलता परोपकर्तृत्वमेव । अपि पुनर्निजकार्य खकृत्यमपि प्रसादनीयं प्रसाद्य सद्योवाच्यम् अथ इत्युक्तेरनन्तरमेष मूरिस्तमकब्बरं प्रति उचिवान् कथयति स्म । हे साहे, अहमखिलान् समस्तानपि अङ्गिनो जन्तून् असून् खप्राणानिवामि निजजीववजानामि । ततः तर्हि परः कोऽस्तु । न कोऽपीत्यर्थः ॥
सुखं निखेलन्तु विलासविष्किरास्त्वया विमुक्ता निजपञ्जरात्पुनः । निरोधदुःखं खगृहैवियोगिनस्तुदत्यनून्यत्तुहिनं तरूनिव ॥ १८० ॥ हे साहे, निजपचरात्स्वकीयकाष्ठकोष्टात्त्वया विमुक्ताः श्रीमता निष्कास्य रोधान्मुत्कला मुक्ताः स्वेच्छाचारिणः कृताः विलासविष्किराः क्रीडाविहंगमाः पुनः पूर्ववत्सुखं सुखेन निखेलन्तु रमन्ताम् । यत्कारणात्स्वेषामात्मनां गृहैर्दारैर्वियोगो विरहोऽस्त्येषामिति वियोगिनस्तानमून्विहंगानिरोधो निरुध्य रक्षणं पारक्षेपणं च तस्य दुःख. मसातं तुदति पीडयति । किमिव । तुहिनमिव । यथा तुहिनं हिमं हिमानीव तरून्पीडयति दहति ॥ .
नभश्चराम्भश्वरभूमिचारिणां वपुष्मतां स्वैरसुखप्रचारिणाम् । - निभालयनीतिशा चराचरं भवानिशं साधुरिवाभयप्रदः ॥ १८१॥ : हे साहे, नभस्याकाशे चरन्तोति नभश्वराः पक्षिणः, तथा अम्भसि पानीये चरन्तीति .अम्भश्चारिणो मत्स्या मकरादयः, तथा भूमौ पृथिव्यां चरन्तीत्येवंशीला भूमिचारिणः शशशम्वरवराहहरिणादयो वन्या गोमहिषपश्वेडकादयो प्रामीणास्तेषां वपुष्मतां देहिना जन्तूनां त्वं नीतिशा न्यायचक्षुषा चराचरं स्थावरजङ्गमरूपं जगनिमालयन् खात्मव. सर्वेऽपि सत्त्वाः पालनीया इति बुद्धया पश्यन्ननिशं निरन्तरं साधुरिव पृथिवीजलानलवायुवनस्पतित्रसाभिधानानां षण्णां कायानां पालयितेव अभयं जीवितदानं प्रददातीत्यभयप्रदो भव एधि । किं च । वपुष्मतां खैरं स्वेच्छया सुखेन मनसा तेन च प्रचरन्तीत्येवंशीलास्तेषाम् ॥ इति पञ्जरपक्षिमोचनमार्गणम् ॥
इति निशम्य दयोदयगर्भितं क्षितिपतियतिशीतरुचेर्वचः । कवितृकाव्यमिवाप्रतिमं गुणैर्मनसि तं प्रशशंस चमत्कृतः ॥ १८२ ॥ क्षितिपतिरकब्बरसाहिः चमत्कृतः आश्चर्य प्राप्तः सन् मनसि चित्ते एव गुणैः शमदमकृपासत्त्वादिभिरप्रतिनमसाधारणं तं सूरि प्रशशंस श्लाघते स्म । किं कृत्वा । य