________________
१४ सर्गः]
हीरसौभाग्यम् ।
७०३ नार्हस्य दानावसरे करस्य हस्तस्योपरिष्टान्न स्म भूत् नाजनि न संजातः । स पुमान् विपिनप्रसूनवत्कान्तारकुसुममिव मोघजन्मा निष्फलावतारो जातः ॥
नवोद्धृतं दध्न इवाम्बुधेः सुधां मृदश्च हेमोपकृतिस्तनोरिव । श्रियस्तथा सारमिदं मुनीन्द्र यत्क्रियेत सा पात्रकराजसङ्गिनी॥१७॥ हे मुनीन्द्र, तथा तेन प्रकारेण श्रियः लक्ष्या इदमेतत्सारं वर्तते । यत्सा श्रीः पात्रस्य साधोः कराब्जस्य पाणिपद्मस्य सङ्गोऽस्ति अस्याः इति पात्रकराब्जसङ्गिनी क्रियेत विधीयेत । तथा कथम् । यथा दन्नः पयःसुतस्य सादरं नवोद्धृतं नवनीतं म्रक्षणमास्ते। पुनर्यथा अम्बुधेः क्षीरसमुद्रस्य सारं सुधां पीयूषम् । नवीनसृष्टिनिर्माणमनुजाभ्यवहारेषु धान्येषु जुगुप्सां कुर्वाणर्गीर्वाणैः खाशनार्थमभ्यर्थितो मधुमथनः प्रथमतः पीयू. षार्थमेव पयोनिधिं मथितवानिति श्रुतिः। पुनर्यथा मृदो धातुमृत्तिकायाः सारं हेम खर्णम्। पुनर्यथा तनोः शरीरस्य सारमुपकृतिरुपकारः। यदुक्तम्-'दानवित्तादृतं वाचः कीर्तिधर्मों तथायुषः। परोपकरणं कायादसारात्सारमुद्धरेत् ॥' इत्युक्तेः ॥ इति गुरोर्दानाय पुनराप्रहः॥ ततो बभाण प्रभुरब्धिनन्दना स्वतन्त्रचारा व्यभिचारिणीव या । श्रयेत तां गन्धकलीमलीव को वृणोमि किं चान्यदहं महीमणे १७४ ततो नृपवाक्यानन्तरं प्रभुहीरसूरि-भाण भाषते स्म । हे महीमणे रत्नगर्भारत्न, या अब्धिनन्दना क्षीरनीरनिधितनया श्रीर्व्यभिचारिणीवासतीव स्वतत्रं स्वेच्छया चरति भ्राम्यतीत्येवंशीला खतत्रं चारो विचरणं भ्रमणं यस्याः सा खतत्रचारा 'भास्ते । ततः कारणात् तां पांसुलामिव श्रियं को महात्मा उत्तमः पुमान् श्रयेत भजेत । अपि तु न कोऽपि । कामिव । गन्धकलीमिव । यथा अली भृङ्गो भ्रमरः गन्धकली चम्पककलिकां नाश्रयेत् । 'न षट्पदो गन्धकलीमजिघ्रत' इति सूक्ते । किं च मत्कथितमवधार्यताम् । एतेषु भवत्कथितपदार्थेषु मम प्रयोजनं नास्ति । अहं किंचिदन्यत् वृणोमि भवत्पार्श्वे याचे ॥
निवेशिता ये नरकेषु नारका इवाङ्गिनो गुप्तिषु सन्ति ते विभो । .. विमुञ्च तानित्थमुदीर्य तस्थुषि व्रतीश्वरेऽभाषत भूवृषा पुनः॥१७५ ॥
पुनः प्रभुयाच्ोपरि भुषा भूमीन्द्रोऽभाषत । कस्मिन् सति । इत्थममुना प्रकारेण उदीर्य उक्त्वा याचनां कृत्वा व्रतीश्वरे सूरीन्द्रे तस्थुषि स्थिते सति मौनमवलम्बमाने सति । इत्थं कथम्। हे साहे, नरकेषु दुर्गतिषु नारका इव ते तव गुप्तिषु कारागारेषु ये अङ्गिनः प्राणिनो जना निवेशिताः क्षिप्ताः सन्ति तान् विमुश्च स्वैरचारिणो मुत्कलान् कुरु ॥ इति गुरोर्बन्दिमोचनार्थ याचना ॥
पृषत्सपत्नैरिव वन्यजन्तवः शकुन्तपोता इव वा शशादनैः। विसारवारा इव देव धीवरैरमीभिरुद्वेगमवापिता जनाः ॥ १७६ ॥