________________
१४ सर्गः होरसौभाग्यम् । मनोनुगामिन्यः हस्ततलस्थायिन्यो वा । महत्त्वाद्हुवचनम् । सिद्धयो नुक्तयोऽपि हस्ते ॥ युग्मम् ॥
गजोऽप्यजो गोष्पदनम्बुधिर्मगो मृगाधिपः स्रग्भुजगस्तमी दिनम् । रणः क्षणश्वाल्पगिरिमरुद्दिरित्रिधापि यो ब्रह्म बिभर्ति भूपते ॥५४॥
हे भूपते, यः पुमान् महिला वा त्रिधापि मनोवाकायब्रह्म शीलव्रतं परनारीसहोदरतां विभाते धत्ते, तस्य पुंसस्तस्याः स्त्रियो वा गजो मदोद्धरसिन्धुरोऽपि अजस्छागप्रायः स्यात् । पुनरम्बुधिः समुद्रोऽपि गोष्पदं गोखुरोत्खातभूमिस्थ जलमिव तेन तया वोल्लासयते। पुनगाधिपः पश्चाननोऽपि मृगो हरिण इव तस्या दूरं पलायते। पुनर्भुजगो विषधरोऽपि तेन स्रगिव कुसुममालिकेव तया चाकरे गृह्यते । तमी सान्धकारा रात्रिदिनमित्र तस्य तस्या वा जायते। रणो घोरोऽपि संग्रामः क्षण उत्सव इव विभर्ति। पुनमगिरिः सुराचलोऽपि . अल्पगिरिः किंचिदुच्चपाषाणभूमिरिवावरुह्यते ॥ इति चतुर्थ ब्रह्मवतम् ॥ . परिग्रहः संयमिनापवादवत्रिधापि नाङ्गीक्रियते कदाचन । तमस्तमीनामुदयादिवोरगाद्विषं यतो दोषभरः परिस्फुरेत् ॥ ५५ ॥ हे भूपते, संयसिना चारित्रवता साधुना त्रिधापि मनोवचनतनुभिरपि अपवादोऽपयश इव । कदाचन कस्मिन्नपि प्रस्तावे सुखे दु:खे वा सुकाले दुःकाले वा सुखाजीविकायां कष्टाजीविकायां वा परिग्रहो धनधान्यक्षेत्रवस्तु मुवर्णरूप्यकुप्यद्विपदचतुष्पदलक्षणो नाङ्गीक्रियते नाद्रियते । यतो यस्मात्परिग्रहादोषाणां निकेतानि दाक्षिण्यलोभाद्यपगुणानां भरो गणः परिस्फुरेत् । किमिव । तम इव । यथा तभीनां कृष्णपक्षक्षपाणामुदयात्प्रकटीभावात्परिभावाद्वा तमो घरोऽन्ध कारं स्फुरेत् । परि समन्तात्सचविश्वान्तः स्फूर्तिमत्यात् विश्वव्यापिस्फूर्तिमद्भवेत् । पुनः किमिव । विषमिव । यथा उरगाद्भुजंगमाद्रलमाविर्भवेत् ॥ गिरीन्द्रमारोहति लङ्घतेऽम्बुधीन्प्रयाति जन्यं गहनं च गाहते। असूस्तृणानीव सृजेन्निजाञ्जनस्तदुल्लसल्लोभविज़म्भितं विभो ॥ १६ ॥ हे विभो हे साहे, यजनो लोकः गिरीन्द्रं तुङ्गशैलमारोहति पर्वतोपरितलशिखरशिखायां चढति, पुनर्यदम्वुधीन् समुद्रान् लवते यानपात्रादिभिः कथं कथंचिदतिकामति अपारं पारावारं प्रतीर्य पारपारं याति । पुनर्यजन्यं दुराकलनीयरणाङ्गणं प्रयाति प्रविशति । च पुनर्गहनं भयानकं काननं कान्तारं गाहते सर्वतः परिभ्राम्यति। पुनर्जनो निजानात्मीयान सून्प्राणान् तृणानीव तृणप्रायान् सृजेत् कुर्यात्। हे राजन् , तत् पूर्वोक्तं सर्वमपि उल्लसन् वर्धमानः प्रकटीभवन् वा यो लोभस्तृष्णा तस्य विजृम्भितं विस्फूर्जितं प्रभावः ॥ इति पञ्चमं व्रतम् ॥