________________
१.३ सर्गः ]
हीरसौभाग्यम् ।
६११
ततो मेोऽपि विषं गरलं जलं च प्रकर्षेणातिशयेन ददातीति विषप्रदः । तथा अस्थान नाप्येकत्र स्थातुं शक्तः प्रतिनगरभ्रामाराम सीमभीमकान्ताराकूपारान् पर्यटनशीलः । अत एवोक्तम् - 'क्षारो वारिनिधिः कलङ्ककलितश्चन्द्रो रविस्तापकृत्पर्जन्यश्चपलाशयः । तथा जडाशयो डलयोरैक्यात् जडो मन्दो मूर्खः प्रज्ञाहीनो निर्बुद्धिराशयोऽभिप्रायश्चेतो यस्य । पक्षे जलमय आशयो मध्यं यस्य जलानामाश्रयो वा । 'आशय आश्रयेऽभिप्रायपनसयोरपि' इत्यनेकार्थः । तथा 'दयासमुद्रे स तदाशयेऽतिथीचकार कारुण्यरस्रापगा गिरः' इति नैषधे। 'कृपापारावारे नलहृदये' इति तद्वृत्तिः । अतो मनोऽपि एतावता पशुवदज्ञानः पश्चात्कर्मधारयः ॥
निज़ैौजसैवोन्मदयन्मनांसि यो योगिनां यौवनवत्पयोदः ।
अहो व्यनंसीत्स्तनितैः स्तवौघैरिव स्तुवन्सोऽप्यनगारशक्रम् ॥ ११४॥ यः पयोदो धाराधरः निजस्यात्मनः ओजसा प्रतापेनैव बलेनैव । माहात्म्येनैवेत्यर्थः । योगिनां वशिनां शमिनामपि मनांसि चित्तान्यमदयन्मदयुक्तानि कृतवान् । किंवत् । यौवनवत् । तथा तारुण्यं संयमिनामपि नन्दिषेणार्द्रकुमाररथनेमिप्रमुखाणामपि मानसानि समदानि सकन्दर्पाणि करोति स्म । यदुक्तम् - 'यौवने विकिरत्येव मनः संयमिनामपि । राजमार्गे प्ररोहन्ते वर्षाकाले किलाङ्कुराः ॥' इति । अहो इति आश्चर्ये । सोऽपि कन्दर्पदपोत्पादयितापि पयोदः तमनगारशकं मुनीन्द्रं व्यनंसीत् उन्नमनागमनमिषाद्विशेषेण नमति स्म । उन्नमय्यागतत्वान्नमस्कृतिर्लक्ष्यते । किं कुर्वन् । स्तवैौघैः स्तोत्रप्रकरैरिव । उत्प्रेक्ष्यते - स्तनितैर्गर्जितैः कृत्वा स्तुवन्निव स्तुतिं कुर्वन्निव । अन्योऽपि स्तुवन्नेत्र प्रणमति ॥ इति मेघागमनम् ॥
भोगीव योगी स तदा शमश्रीसङ्गी प्रविश्य प्रणिधानसौधम् । दिनं तदर्हगुणकीर्तनेन व्यतीत्य सांध्यं विधिमन्वतिष्ठत् ॥ ११९ ॥
तदा तस्मिन् बहलीभूतनूतनजीमूतसमये स हीरसूरियोंगी मनोवचनकाययोगवान्, अथ वाष्टाङ्ग योगयुक्तः । अर्हतामतीतानागतवर्तमानतीर्थकृतां गुणानां कीर्तनेन स्तवनेन कृत्वा तज्जगन्मलमन्दिरखमागननी रदागमनसंबन्धि दिनं वासरं व्यतीत्यातिक्रम्य सांध्यं दिवसावसानसत्कं विधि प्रतिक्रमणादिकृत्यमन्वतिष्टत्करोति स्म । किं कृत्वा । दिनं व्यतीत्य । प्रणिधानं ध्यानमेव सौधं विलाससद्म प्रविश्यान्तर्निलीय । किंलक्षणः । शमश्रिया सङ्गो मिथः परिरम्भोऽस्त्यस्य स उपशमकमलानुषङ्गी । क इव । भोगीव । यथा भोगभाक् पुमान् कामिनीगा ढालिङ्गनरङ्गवान् प्रावृषि क्रीडामन्दिरे प्रविश्य सघनं दिनं व्यत्येति ॥
प्राग्भूमिभृत्स्वाभ्युदयाभिलाषी द्वीपे परस्मिन्निव रश्मिमाली । निजाननन्यक्कृतशीतकान्तिस्तस्मिन्नशेषां स उषामनैषीत् ॥ ११६ ॥