________________
काव्यमाला।
तदा वराणां द्विजवत्कनीनां गर्जात्तवेदध्वनिरम्बुवाहः । शाखाकरैहियति स्म भूमीरुहां प्रवालाग्रकरांल्लतानाम् ॥ १११ ॥ तदा तत्र प्रावृट्रप्रथमसमये अवनिवनानां नवपल्लवीभवनानन्तरमम्बुवाहो मेघो भूमीरुहां पादपानां शाखा एव कराः पाणयस्तैः कृत्वा लतानां प्रवालाः पल्लवा एवाप्रकरा हस्ताग्राणि तान् ग्राहयति स्म । किंवत् । द्विजवत् यथा ब्राह्मणो वराणां परिणेतृणां शाखावल्लम्बमानैः करैः । अत्र स्कन्धादारभ्यागुली यावत्पाणिरेव विवक्षितः । कनीनां कुमारिकाणां प्रवालवदयान्प्रकृष्टान् शोणिमसौकुमार्ययुक्तान् हस्तान् ग्राहयति । तत्र तावद्वेदपाठोच्चारो भवति । तमेवाह-किलक्षणोऽम्वुधरः । गर्जाः स्तनितान्येव आत्ता गृहीता वेदध्वनयो विवाहोचितोच्चरिता वेदऋचा शब्दा येन ॥
अत्रैरनीकैरिव दिग्विभागानाक्रामतश्छिन्नतपर्तुदस्योः। । । केकारवैः किं क्रियतेऽम्बुदस्य जयध्वनिश्चन्द्रकिबन्दिवृन्दैः ॥ ११२॥
अम्बुदस्य जलधरस्य चन्द्रकिनो मयूराः । 'अच्छाच्छैः शुकपिच्छगुच्छहरितैश्छिन्ना वनान्तास्तुणैः सेव्याः संप्रति सान्द्रचन्द्रकिकुलैरुत्ताण्डवैर्मण्डिताः' इति चम्पूकथायाम्। त एव बन्दिवृन्दानि मङ्गलपाठकपटलानि तैः केकारवैः केका इति शब्दैः कृत्वा। उत्प्रेक्ष्यते-जय जय इति ध्वनिः क्रियते किं विधीयत इव । 'सरूपाणामेकशेषः' इति एकपश्चजयशब्दोऽवशिष्टः । अम्बुदस्य किं कुर्वतः । अनीकैः कटकैरिवाभैर्वद्दलकैः कृत्वा दिग्विभागान् समस्तानां हरितां प्रदेशानाक्रामतो व्याप्नुवतः खायत्तान्वा सजतः । पुनः किंभूतस्य । छिन्नो मूलादुन्मूलितस्तपर्तुनिंदाघसमय एव दस्युः शत्रुर्येन ॥ विषप्रदोऽस्थास्नु जडाशयश्चेत्यपाचिकीर्षुः खमिवापवादम् । .. तदाम्बुदस्तं ककुदं मुनीनामुपासनागोचरतां निनाय ॥ ११३ ॥
तदा प्रावृट्काले अम्बुदो घनाघनः तं मुनीनां श्रमणानां मध्ये ककुदं श्रेष्ठं मुख्य सूरिम् । 'ककुदं तु प्रधानेंऽसे वृषाङ्के राजलक्ष्मणि' इत्यनेकार्थतिलके । उपासनायाः सेवायाः गोचरतां निनाय प्रापयति स्म । सेवते स्मेत्यर्थः । उत्प्रेक्ष्यते-इत्यमुना प्रकारेण खमात्मीयमपवादमयशो जनमध्ये निन्दामपाचिकीर्षुनिराकर्तुमिच्छुरिव । इति किम् । यदयं मेघः विषं कालकूटं प्रददातीति । तत्त्वतस्तु जलदः । 'विषं क्ष्वेडे जले च' इत्यनेकार्थः । तथा 'विषः क्ष्वेडो रसस्तीक्ष्णं गरलौघः' इति हैम्याम् । तथा व्यासषष्ठिकमध्ये-'देवराजो मया दृष्टो वारिवारणमस्तके। भक्षयनपत्राणि विषं पीत्वा क्षयं गतः ॥' तत्त्वार्थो यथा-हे देवर, मया वारिणां वारणं तटाकपालिस्तस्य मस्तके उपरि अजो मेषो वात्कट: दृष्टः । किं कुर्वन् । अर्कस्य अर्कतः 'आकडो' इति प्रसिद्धस्य पत्राणि पर्णान् भक्षयन् खादन् । ततो विषं तटाकजलं पीत्वा क्षयं गृहं गतः इति ।