________________
१३ सर्गः ]
हीरसौभाग्यम् ।
५८१
उत्प्रेक्ष्यते -- सितानामुज्ज्वलानां केतूनां ध्वजानां काया: शरीराणि यस्यास्तादृशी अभ्रसरिगगनापगा समागता ॥
द्वितीयराशौ शतमन्युसूरिरिव क्रमेणोपगतः स तस्याम् ।
प्रकाशयन्बोधिनिधीन्विदग्धान्महोदयस्याभिमुखीचकार ॥ ९ ॥ स सूरिः क्रमेण प्रवेशपरिपाट्या तस्यां शिवपुर्यामुपगतः समायातवान् सन् विदग्धान् कोविदान् छेकाञ्जनान् महान्सुरनराभ्युदयेभ्योऽतिशायी उदयो यत्र तादृशो मोक्षस्तस्याभिमुखीचकार । धर्मोपदेशश्रवणात देकाग्याराधनमनस्त्वेन सिद्धिगामिनो विदधाति स्म । किं कुर्वन् सूरिः । बोधेर नेकभेदभिन्नसम्यक्त्वरूपात् निधीन्निधानानि प्रकाशयन् प्रकटीकुर्वन् । क इव । शतमन्युसूरिरिव । यथा शतमन्योः शतक्रतोः पुरंदरस्य सूरिराचार्योऽध्यापयिता बृहस्पतिः । यदुक्तं नैषधे - ' ईदृशीं गिरमुदीर्य बिstar जोषमासनविशिष्य बभाषे । नात्र चित्रमभिवाकुशलत्वे शैशवावधिगुरुर्गुरुरस्य ॥' इति । यस्य कस्यचिद्भाग्यवतः पुंसः खराशितो द्वितीयो राशिस्तत्र समेतः सन् निधाद्रव्याणि प्रकाशानि विदधानः महोदयस्य राज्यमत्रिश्रेष्ठिपदादिरूपस्य महोदयस्यात्यभ्यधिकाभ्युदयस्य संमुखीकरोति । यदुक्तं ज्योतिविद्भिः - 'द्वितीये नवमे राशी बृहस्पतिरुपागतः । कुर्यान्महोदयं पुत्रगोत्रवृद्धिं धनं पुनः ॥' इति वचनात् ॥ इति शिवपुर्या प्रभोः पादावधारणं तन्मद्दवर्णनं च ॥
स प्रस्थितस्तत्पुरतः पुरस्तात्स्मितप्रसूनादिव चिञ्चिरीकः ।
गण्डे गजस्येव विर्लङ्घय मार्गे स सादडीनाम्नि पुरे जगाम ॥ १० ॥
स सूरिस्ततस्तत्पुरतः सीरोहीनगरात्पुरस्तादग्रे प्रस्थितः प्रचलितः सन् मार्गे पन्थानं विलङ्घयातिक्रम्य सादडीनाम्नि पुरे जगाम गतवान् । क इव । चिश्चिरीक इव । यथा भ्रमरः स्मिताद्विकसि तात्प्रसूनात्कुसुमात्प्रचलितः सन् मार्गमुल्लङ्घय गजस्य गन्धसिन्धुरस्य गण्डे कपोलस्थळे गच्छति । 'कटेषु करिणां पेतुः पुंनागेभ्यः शिलीमुखाः' इति रघुवंशे । प्रसूनानि त्यक्त्वा भृङ्गा गजेन्द्रगण्डस्थलगलद्दानवारि पातुं समायान्ति ॥ प्राग्वागडावन्तिविराटखानमहादिराष्ट्रापरमण्डलेषु ।
सार्थाधिपेनेव सुतेन सातं विहृत्य लाभांश्च बहूनुपार्ण्य ॥ ११ ॥ कल्याणराजद्विजयाभिधानोपाध्यायचन्द्रेण समेत्य तत्र । क्रमादविच्छिन्नतमैः प्रयाणैः श्रीतातपादाः प्रणताः प्रमोदात् ॥ १२॥ युग्मम् )
कल्याण इति पदेन राजद्दीप्यमानं विजय इत्यभिधानं नाम यस्य तादृशेनोपाध्यायेषु वाचकेषु चन्द्रेण जनाह्लादकत्वेन विधुना । एतावता कल्याणविजयोपाध्यायेनेत्यर्थः । अविच्छिन्नतमैरतिशयेन खण्डितैः त्वरितत्वरितैः प्रयाणैः प्रतिदिनं पथि प्रस्थानकैः श्रमात् खानलप्रटगुर्जरार्बुदाद्रिपरिसरदेशोल्लङ्घन परिपाठ्य्या समेत्य सादडीपुरे समागत्य