________________
काव्यमाला।
ततः शिवपुरीसमागमनानन्तरं सुरत्राणनामा नृपः शिवपुरीमण्डलखामी देवडाभिधानानां राजपुत्राणां राजा जनानां शिवपुरीवासिनां लोकानामारवैः शब्दैः। वार्ताभिरित्यर्थः । मुनीन्दोः सूरेरागमनं समवसरणम्। पादावधारणमित्यर्थः। निपीय सादरं श्रुत्वा संमदेनानन्देन मेदुरः पुष्ट: अभूद्धभूव । क इव । नभोम्बुप इव । यथा चातकः कला. पिनां मयूराणां केकाभिः केकाभिधानध्वनिभिः । मयूरवाक् केका इत्युच्यते । अम्बुदस्य मेघस्य आगमनं श्रुत्वा प्रमोदोपचिततनुर्भवति ॥
भक्त्या सुरत्राणनृपोऽभिगम्य वेत्रीव दण्डं दधदग्रगामी । प्रवेशयामास पुरी स सूरि पुराङ्गनागीतयशःप्रशस्तिम् ॥६॥ स पूर्ववृत्तपोकः सुरत्राणाभिधानो नृपोऽव॑दचलाधिपतिर्भक्त्या सेवासक्त्या अमिगम्य संमुखमागत्य सूरि पुरी श्रीरोहिणी नगरी प्रवेशयामास । शिवपुरीमध्ये आनिनायेत्यर्थः । ण्यन्तत्वात्कर्मद्वयम् । किंभूतः सः । पुरः सूरेरग्रे गच्छतीति इत्येवंशीलः। पुनः किं कुर्वन् । दण्डं वेत्रं दधद्विभ्राणः । क इव । वेत्रीव । यथा दौवारिकः प्रतीहारः वेत्रयष्टिं करे दधानः पुरो गच्छति । किंभूतः सूरिः । पुराङ्गनामिः श्रीरोहिणीनगरीनागरीभिर्गीता गानगोचरीकृता यशो कीर्तीनां प्रशस्तयो विविधा अव. दाता यस्य ॥ .. आलेख्यशेषीकृतकामदस्योरुपास्यमानस्य महीमहेन्द्रैः। .. चक्रीव चक्रस्य पुरे पुरीन्द्रो महामहं कारयति स्म सूरिः ॥ ७॥ ' पुरीन्द्रः श्रीरोहिणीपुरीपुरंदरः सुरत्राणनामा भूमान् पुरे खश्रीरोहिणीनगरे हीरविजयव्रतीन्द्रस्य महामहं प्रतिगृहापणादिषु ध्वजबन्धनादिममतिश्पयिनमुत्सवं कारयति स्म । क इव । चक्रीव । यथा चक्रवर्ती प्रथमोत्पन्नस्य चक्रस्य रथाङ्गरत्नस्य महोत्सव निर्मापयति । किंभूतस्य सूरेश्चक्रस्य च । आलेख्यं चित्रं शेषमवशिष्टं यस्य तादृशः कृतः निहितः कामः कंदर्परूपो दस्युः शत्रुर्येन । पक्षे नामशेषीकृता व्यापादिताः काममविशयेन शिरश्छेदादिना वैरिणो येन । पुनः किंभूतस्य । महीमहेन्द्रः पृथ्वीपुरंदरैः महाराजै विनि भूतोपचारे उपास्यमानस्य चक्रप्रभावादेव चकी सेव्यते । अतो मुख्यवृत्त्या चक्रमेव सेव्यम् ॥ . दिदृक्षुरेतन्महिमानमभ्रसरित्सहस्रं दधती मुखानाम् । • यत्रागता किं सितकेतुकाया पुरी स तां सूरिरलंचकार ॥ ८॥ • सूरिस्ता सुरत्राणनृपनिर्मापितानेकमहोत्सवबहलां शिवपुरीनाम्नीं नगरीमलंचकार विभूषयामास । तां काम् । यत्र श्रीरोहिण्यामेतस्य. जगजनमानस्य हीरविजयसूरेमहिमानं खाभाविकमाहात्म्यम् । अथ वा सुरत्राणधरित्रीसुत्रामनिर्मापितानन्यमहोत्सवादिगरिमाणं दिक्षुष्टुमिच्छुर्विलोकयितुमाकान्ती सती । अत एव मुखानां पयःप्रवाहरूपवक्राणां सहसं दशशतीं दधती विभ्रती । सहस्रमुखी गङ्गेति जनप्रसिदः ।