SearchBrowseAboutContactDonate
Page Preview
Page 639
Loading...
Download File
Download File
Page Text
________________ ९७८ काव्यमाला। पूर्यते स्म । तैः स्थापितस्तत्रैव स्थितः सोऽयमबुंदो हिमाद्रिपुत्र इति तत्पारिपार्श्वकर्शवलोकस्य प्रवृत्तिः प्रसिद्धिश्च । तथा वस्तुपालवसतिप्रशस्तावपि 'गारीवरश्वशुरभूधर. संभवोऽयमस्त्यर्बुदः ककुदमद्रिकदम्बकस्य । मन्दाकिनीघनजटे दधदुत्तमाङ्गे यः शालक: शशभृतोऽभिनयं करोति ॥' इति दृश्यते ॥ उदयशिखरिणीव श्रीमदम्भोजबन्धु. विषमविशिखवैरी स्फाटिकोर्वीभृतीव । त्रिदशपतिरिव स्वर्भूधरे सूरिसिंहो हिमशिखरिसुतेऽस्मिन्कांचनामां बभार ॥ १२९॥ सूरिसिंहो हीरविजयनामा सूरिशार्दूल: अस्मिन्नर्बुदाचलाभिधाने हिमशिखरिसुते . तुहिनाचलनन्दने कांचन अनिर्वचनीयामाभां शोभा बभार दधाति स्म । क इव । श्रीम-: दम्भोजबन्धुरिव । यथा श्रीमान् सर्वज्योतिश्चक्रज्योतिः पराभवनप्रवणप्रतापलक्ष्मीवान् अम्भोजबन्धुर्भानुमान् उदयशिखरिणि पूर्वपर्वते अद्वैतां शोभां बिभर्ति । पुन: क इव । विषमविशिखवैरीव । यथा विषमाः सोढुमशक्या अथ वा समेतरे पश्चत्वाद्विशिखा बाणा यस्य स स्मरस्तस्य वैरी प्रतिपक्षः पार्वतीपतिः ईश्वरः स्फटिकस्यायं स्फाटिकस्तादृश उर्वीभृत्पर्वतः एतावता स्फटिकाचले कैलासे । पुनः क इव । त्रिदशपतिरिव । यथा सुरेन्द्रः स्वर्भूधरे मेरुगिरौ असाधारणां भूषां बिभर्ति । 'जाम्बूनदोर्वीधरसार्वभौम' इतीन्द्राभिधानं नैषधे ॥ यं प्रासूत शिवाह्वसाधुमघवा सौभाग्यदेवी पुनः. श्रीमत्कोविदसिंहसीहविमलान्तेवासिनामनिमम् । तबाहीक्रमसेविदेवविमलव्यावर्णिते हीरयु___क्सौभाग्याभिधहीरसूरिचरिते सर्गोऽभवद्वादशः ॥ १३० ॥ इति पण्डितदेवविमलगणिव्यावर्णिते हीरसौभाग्यनाम्नि महाकाव्ये हीरविजयसूरिचरिते द्वादशाना संख्यापूरणो द्वादशः सर्गः अभवद्बभूव ॥ ___ इति पण्डितसीहविमलगणिशिष्यपण्डितदेवविमलगणिविरचिते हीरसौभाग्यनानि महाकाव्ये अकमिपुरप्रस्थानविजयसेनसूरिसंमुखागमनपत्तनपादावधारणसमवसरणवन्दनपुरःप्रस्थानासिद्धपुरागमनविजयसेनसूरिपश्चाद्वलनमार्गोल्लङ्घनार्जुनपल्लीपतिपत्नीवन्दनायुंदाचलाधिरोहणविमलवस्तुपालवसतिप्रमुखजिनस्तवनादिवर्णनो नाम द्वादशः सर्गः ॥ त्रयोदशः सर्गः । अथार्बुदादेरवतीर्य भूमी विभूषयामास स सूरिभूमान् । . वचस्तरङ्गैस्त्रिजगत्पुनानो रयो हिमाद्रेरिव देवनद्याः ॥ १॥ .
SR No.002262
Book TitleHeer Saubhagya Mahakavyam
Original Sutra AuthorN/A
AuthorDevvimal Gani, Shivdatta Pandit, Kashinath Sharma
PublisherKalandri Jain S M Sangh
Publication Year1985
Total Pages980
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy