________________
५७७
१२ सर्गः] हीरसौभाग्यम् ।
नमनेन मुनीशिता परेष्वपि चैत्येषु जिनेन्द्रसंततेः ।
धनकामयितेव संमदं दधते स्माधिगमेन शेवधेः ॥ १२६ ॥ ___ मुनीनां यतीनामीशिता पतिः सूरिः परेष्वपि देवलपाटकवर्तिध्वपि अन्येषु प्रासादेषु जिनेन्द्रसंततेः भगवत्प्रतिमापरु मनेन प्रणामकरणेन संमदं .हर्ष दधते विधत्ते स्म । 'दधि धारणे' केवलमात्मनेपदी धातुः । क इव । धनकामयितेव यथा द्रव्याभिलाषुकः पुमान् शेवधेर्निधानस्याधिगमेन प्राप्त्या प्रसादं दधाति ॥
चौलुक्यचैत्यं विधृतामृतश्रि धर्मप्रपास्थानमिवैष मार्गे । नत्वा मुनीन्द्रोऽचलदुर्गमध्ये चतुर्मुखे नाभिसुतं व्यनंसीत् ॥ १२७ ॥ एष मुनीन्दः । अचलो नामा यो दुर्ग: कोट्टस्तस्य मध्ये चतुर्मुखे प्रासादे नाभिसुतम् ऋषभदेवं व्यनंसीत् विशेषेण नव्यस्तुतिपञ्चाङ्गीभूलगनपूर्वकं नमति स्म। किं कृत्वा । देवलपाटकादलदुर्गागमनाध्वनि चौलुक्यस्य कुमारपालभूपालस्य चैयं प्रासादं नत्वा अर्थात्तत्रार्हन्तं प्रणम्य । उत्प्रेक्ष्यते-चौलुक्यचैत्यं धर्मप्रपास्थानमिव धर्मस्य पानीयशालागृहमिव । लौकिके व्यवहारे धर्मार्थमार्गश्रमश्रान्तपिपासिपथिकनिर्वृत्यर्थे मार्गे प्रपा कार्यते । किंलक्षणेन । विधृता आश्रिता अमृतवदुज्ज्वला श्रीः शोभा येन । अथवा विधृता खस्मिन्नानीय रक्षिता अमृतश्रीर्मोक्षलक्ष्मीर्येन । प्रपापि धृता आलम्बिता अमृतानां कुसुमैलाकर्पूरादिवासितजलानां प्रागुक्तसलिलैर्वा श्रीः सुषमा येन ॥
दिनानि कतिचित्सूरिगिरीन्द्रतनुजे गिरौ।
स्थितोऽर्हद्ध्याननिध्यानश्चारणश्रमणेन्द्रवत् ॥ १२८ ॥ . सूरिगिरीन्द्रस्य हेमाद्रेस्तनुजे नन्दने गिरी पर्वते अर्बुदाचले कतिचिद्दिनानि कियतो वासरान् यावस्थितः अर्हद्दर्शनादिलोभेन तत्र तस्थिवान् । किंभूतः । अर्हतो भगवतो ध्यानेन प्रणिधानेन चित्तैकाग्र्येण कृत्वा निध्यानमवलोकनं यस्य । योगिनो हि खहृदयकमले परमात्मानं साक्षात्समीक्ष्य ध्यानाद्विरमन्ति इति कुमारसंभवे पार्वतीपाणिग्रहणात्पूर्वसमये ध्यानव्यतिकरे । अथ वा अर्हतां सर्वतीर्थकृतां ध्यानं हृगोचरीकरणं स्मस्णं वा पौनःपुन्येन । वारंवारमित्यर्थः । दर्शनं चैत्यगमनादिना यस्य । किंवत् । चारणश्रमगेन्द्रवत् । यथा असाचारणविद्याचारणादिर्यतिपुंगवाः यात्रार्थ गताः क्वापि शत्रुजयादितीर्थपर्वते कानिचिद्दिवसानि तिष्ठन्ति । दिनदिवसवासराः पुनपुंसकलिङ्गे । श्रूयते तजनपदलोकवृत्त्यां पूर्वमष्टाशीतिऋषयः अत्र स्थाने तपः कुर्वाणाः आसन् । तेषां च होमादिसाधनमेका कामधेनुश्चरन्ती सती महागर्तान्तः पपात । ततस्तां निष्काशयितुमशक्का ऋषयो गत्वा हिमाचलं याचित्वा तत्पुत्रमवुदनामानं महामहीधरमत्रानैषुः । तावतासौ कामगवी स्वपयोभिस्तां गर्तामापूर्य तीर्वा च बहिनिःसरति स्म । ततः । पुनर्मास्या धेनोरेतद्गर्तायां पातो भवतु इत्याशङ्कय ऋषिभिस्तद्र्तामध्यमवृंदाद्रिणा
७३