SearchBrowseAboutContactDonate
Page Preview
Page 627
Loading...
Download File
Download File
Page Text
________________ काव्यमाला। आत्मनः खस्य मण्डलहृदयवतिनं लक्ष्म लाञ्छनमेव पङ्कं कदममपनेतुं क्षालयितुं किमु नाति स्नानं करोतीव । कस्मात् । चैत्यस्य विमलवसतेर्मूर्धनि शिखरोपरितनभागे संदृब्धेभ्यः संकल्पितेभ्यो विधुकान्तेभ्यश्चन्द्रकान्तरत्नेभ्यो निष्पतति चन्द्रकिरणसंपर्काद्विनिःसरति पाथसि पयःपूरे प्रतिमितेः प्रतिबिम्बस्य निभायाजात् ॥ यन्मणीमयशिखासु बिम्बितं विम्बमम्बरमणिर्वहन्व्यभात् । ईयिवानयमियत्तया श्रियः कौतुकादनुमिमीषयास्य किम् ॥ ९० ॥ . यस्या विमलवसतेर्मणीमयशिखासु रत्नराशिरचितशिखरेषु बिम्वितं प्रतिबिम्बमत्यच्छतया संक्रान्तं बिम्बं स्वमण्डलं वहन्नम्दरमणिर्गगनरत्नं भास्करो व्यभाद्भासते स्म । उत्प्रेक्ष्यते-कौतुकात्कुतूहलादस्य मूलप्रासादस्य श्रियो लक्ष्म्या इयत्तया एतावत्प्रमाणत्वे. . नानुमिमीषया अनुमातुं प्रमाणीकर्तुमिच्छया अयं भाखानीयिवान्कि चैये समेत इव ॥ इह जिनालयवज्रविनिर्मिताम्बरविलम्बिशिखाग्रनिघर्षणात् । उरसि रन्ध्रमजायत यामिनीप्रणयिनः कपटादिव लक्ष्मणः ॥ ९१ ॥ यामिनीप्रणयिनो निशाप्राणनाथस्योरसि वक्षःस्थले । उत्प्रेक्ष्यते-लक्ष्मणो लाञ्छनस्य कपटाइन्धं छिद्रमजायत जातमिव । कस्मात् । इहार्बुदपर्वते जिनालयस्य भगवद्गहस्य वज्ररत्नेहोरकमणिभिनिर्मिताया रचितायास्तथा अम्बरमाकाशमालम्बते आश्रयते इत्येवंशीलायाः शिखायाः शिखरस्य अग्रे उपरितनभागेऽतिघर्षणात् नितरां घृष्टेः ।। अभितः सितयद्वसतेर्विशदः शुशुभे लघुदेवगृहप्रकरः । उड्डयौवतमेतदिहोपगतं शशिना सह रन्तुमिवाम्बरतः ॥ ९२ ॥ सितायाः श्वेतोपलमयत्वादुज्ज्वलाया अथ वा सुधाधवलितत्वेन विशदायाः यद्वसतेमूलप्रासादस्य अभितश्चतुर्वपि दिक्षु पार्श्वेषु वा विशद आरासोपलमयत्वादत्यवदातः लघुर्मूलप्रासादापेक्षया खल्पप्रमाणोच्चैस्तरः देवगृहाणां देवकुलिकानां प्रकरः समूहः शुशुभे भासते स्म । उत्प्रेक्ष्यते-शशिना स्वभा विधुना सह रन्तुं विविधविलासं वि. धातुमम्बरत आकाशादिह रसिकदम्पतीनां क्रीडोचिते अर्बुदाचले उपगतं आयातमुडवस्वारा एव यौवतं चन्द्रनितम्बिनीनिवह इव ॥ निम्रन्थपृथिवीनाथश्चैत्यं विमलमन्त्रिणः । वैजयन्तमिव प्रीत्या प्राविशत्रिदशेश्वरः ॥ ९३ ॥ निर्ग्रन्थनामनराणां पृथिवीनाथो राजा सूरीन्द्रः प्रीत्या प्रमोदेन विमलनानो मत्रिणः सचिवस्य चैत्यं प्रासादं प्राविशत् विमलवसतिमध्ये प्रविशति स्म । क इव । त्रिदशानामीश्वरो नायकः शक्रः यथा वैजयन्तं वैजयन्तीनानी पताका अस्त्यस्मिन्निति वैज. यन्तः तं प्रासादं प्रविशति ।। इति तिमलवसतिवर्णनम् ।।
SR No.002262
Book TitleHeer Saubhagya Mahakavyam
Original Sutra AuthorN/A
AuthorDevvimal Gani, Shivdatta Pandit, Kashinath Sharma
PublisherKalandri Jain S M Sangh
Publication Year1985
Total Pages980
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy