________________
१२ सर्गः] हीरसौभाग्यम् । पर्वते कुत्रचित्कुर्वतेऽन्तर्मदैर्मेदुराः कुञ्जरा गर्जिविस्फूर्जितम् । यजितेनेव विन्ध्याद्रिणा प्राभृतं प्रापिताः शक्रनागानुवादा इमे ॥८॥ पर्वते गौरीगुरुसुतेऽचले कुत्रचित् गह्वरादिप्रदेशे अन्तर्मध्ये मद उन्मादो दानप्रवाहो वा तेन मेदुरा खेच्छाचारित्वात्पुष्टाङ्गाः कुञ्जराः षष्ठिहायना यूथनाथा गजाः । यदुक्तमुत्तराध्ययने-'कुञ्जरे सद्विहायने' इति । गर्जिविस्फूर्जितं गारवस्फूर्ति कुर्वते । सजलजलदवद्र्जन्तीत्यर्थः । उत्प्रेक्ष्यते-यजितेन अर्बुदपर्वतपराभूतेन विन्ध्याद्रिणा जलवालकशैलेन शक्रनागमिन्द्रगजमैरावणमनुवदन्त्यनुकुर्वन्ति ऐरावणोपमानाः । अथ वा हरिकरिणमनु पश्चाद्वदन्ति वयं पूर्व शोभातिशयादिभिः प्रथमतो गणनीया ऐरावतस्तु अस्मत्पश्चाद्गणनीय इति कथयन्ति वा । हस्तिमल्लप्रतिमला इत्यर्थः । इति शक्रनागानुवादा इमे प्रत्यक्षलक्ष्या गजा हस्तिनः प्राभृतमुपदां प्रापिताः ढौकिता इव ॥
आशुगालोलसालाङ्गहारो भ्रमद्भङ्गवाग्गीतिवेल्ललताहस्तकः । सूरिपादाम्बुजस्पर्शमासाद्य यो नृत्यतीव प्रमोदं दधद्भूधरः ॥ ८१ ॥
सूरेचिंयमचक्रवर्तिनः पादाम्बुजयोश्चरणकमलयोः स्पर्शमनुषङ्गमासाद्य संप्राप्य प्रमोदं मनस्यानन्दं दधद्वहन् यो भूधरोऽर्बुदाचलो नृत्यतीव नृत्यं करोतीव । नृत्यलक्षणानि दर्शयति । किंभूतः । आशुगैः शीघ्रगामिभिरतिवेगवत्तरैः पवनैः कृत्वा आसामस्त्येन शाखाप्रशाखादिभिः साध लोलाश्चपलाः संजायमाना ये साला नानाजातीयतरवः त एव तैः कृत्वा वा अङ्गहारोऽङ्गविक्षेपो नाटकाभिनयदर्शनं यस्य । पुनः 'किंभूतः । भ्रमन्तो विविधविकसितकुसुममकरन्दपानार्थमितस्ततः पर्यटन्तो ये भृङ्गास्तेषां वाग्वाण्येव गीतिर्गानं यस्य । ‘वाण्या भृङ्गी पिकीरवा' इति काव्यकल्पलतायाम् । तथा वेल्लन्यो मरुत्तरला भवन्त्यो या लता वल्लयस्ता एव हस्तका विविधहस्तचेष्टनानि यस्य ॥ - यः परान्कौतुकैः काममुत्कण्ठयन्नास्य जहे मनश्चित्रमत्रास्ति किम् ।
स्मेरयन्नप्यशेषं कुमुत्काननं पद्ममुद्बोधयेत्पार्वणेन्दुः किमु ॥ ८२॥ योऽर्बुदाचलः परान्परजनान् कौतुकैरात्मीयालोकनीयानेककौतूहलैः कृत्वा काममतिशयेन उत्कण्ठयन्नुत्सुकभावं प्रापयन् सन्नपि अस्य हीरसूरेर्मनो मानसं न जढे न हृतवान् न खवशीचक्रे । अत्रेह स्थाने किं चित्रं किमाश्चर्यम् । तदेव दृढयतिअशेषं समस्तं कुमुदां कैरवाणां काननम्। वृन्दमित्यर्थः । स्मेरयन्विकाशयन्नपि पार्वणेन्दुः पूर्णिमासंबन्धी चन्द्रमाः पद्मं सूर्योदयविकसनशीलं कमलं केमूद्वोधयेद्विनिद्रीकुर्यात् विकाशयेत् अपि तु न ॥ इत्यर्बुदाचलकौतुकानि ॥
मन्दमन्दं चलन्नर्बुदोर्वीधराधित्यकामध्यरोहद्यतीनां पतिः । शंभुसौधैः पवित्रीकृतोर्वीतलां रूप्यशैलस्य चूलामिवेच्छावसुः ॥ ८३॥ यतीनां श्रमणानां पतिः खामी हीरसूरिर्मन्दमन्दं शनैः शनैः । 'गगनमवजगाहे मन्द.