________________
५६० .
काधमाला। यन्नभःसङ्गिशृङ्गाङ्गणालिङ्गिनां किंनराणां समं यौवतैर्गायताम् । गीतमाकर्ण्य रङ्कुर्मंगाकं तदाक्षिप्तचेता व्रजन्नप्रतोऽखेदयत् ॥ ७० ॥ रश्चन्द्रस्याङ्कमृगः अग्रतः अर्बुदाचलशृङ्गाणि संत्यज्य पुरस्ताद्रजन् प्रतिष्ठमानः मृगाई विथुमम्वेदयत् महत्खेदमुत्पादयति स्म । किंभूतो रङ्कः । तदाक्षिप्तचेताः तत्र किंनरकृतगीते आक्षिप्तं विलग्नं चेतो मनोवृत्तिर्यस्य सः । किं कृत्वा । यस्यार्बुदगिरेनभसोऽम्बरस्य सङ्गो मिलनं विद्यते येषां तादृशानि शृङ्गाङ्गणानि शिखरोपरितनप्रदेशास्तान्यालिङ्गान्त्याश्लिष्यन्ति आश्रयन्तीत्येवंशीलास्तादग्विधानाम् । तथा यौवतैर्युवतीनां किंनरीणां गणैः समं साधं गायतां खरसेन गानं कुर्वतां किनराणां किंपुरुषाणां गीतं मधुरध्वनिलयमयगेयमाकर्ण्य श्रवणपारणां प्रणीय ॥
यत्र चन्द्रोदयश्श्योतदिन्दूपलप्रस्थसंस्थायुकोन्निद्रकुन्दद्रुमे । राजते राशिरिन्दिन्दिराणां सुधासागरे शेषशायीव शक्रानुजः ॥ ७१ ॥ यत्रावुदशैले चन्द्रस्य मृगाङ्कयोदयेनाभ्युद्गमेन श्योतन्तः, क्षरन्तोऽमृतरसं स्रवन्तो ये इन्दूपलाश्चन्द्रकान्तमणयस्तेषां प्रस्थं शिखरं तत्र संस्थायुको वसनशील: उद्तत्वास्थायी तथा उनिद्रो विकसितः स्मितकुमुमव्रजविशदीकृतो यः कुन्दद्रुमः तंत्र इन्दिन्दिराणां भ्रमराणां राशिः समूहो राजते शोभते । क इव । इन्द्रावरज इव । यथा मुधाया उत्पत्तिस्थाने क्षीरसागरे शेपे नागाधिराजशय्यायां शेते स्वपिति इत्येवं. शीलः शेषशायी कृष्णः शोभते ॥
मेरुमुख्याखिलोर्वीधराणामिवोपात्तसारैरसौ वेधसासृज्यत ।, एप निःशेषभूमीमृतां निर्जयं निर्मिीते न चेद्वैभवैः स्वैः कुत ॥७२॥ मेरुः स्वर्णाचलो मुख्यः सर्वोच्चस्तरत्वात् रत्नसानुसुवर्णमयत्वाच्च प्रकृष्ट आदिमो वा मुखे आदी भव इति व्युत्पत्त्या प्रथमो येषां तादृशानामखिलानां समग्राणामुवीध. राणां पर्वतानामुपात्तैरुप समीपे आगत्य आत्तैः सम्यगवलोकनपूर्व संगृहीतः सारैः सर्वातिशायिपरमाणुदलैः कृत्वा । उत्प्रेक्ष्यते-असौ अर्बुदाचलो वेधसा जगत्सृजा अमृज्यत सृष्टो विरचित इव । एवं चेन तर्हि एषोऽधंदाद्रिः खैरात्मीयवैभवैः शोभातिशयैः कृत्वा निर्गतः शेषोऽवशिष्टो येषु ते निःशेषाः समस्तास्तेषां भूमीभृतां यावजगांग. रीणां निर्जयं नितरां जयं परिभवं कुतः कस्मात्कारणानिर्मिमीते करोति ॥ इत्यर्बुदाचलवर्णनम् ॥
आरुरुक्षुर्मुमुक्षुक्षितीन्द्रस्ततोऽलंकरोति स्म देशं सवेशं गिरेः । गौरवेणाधिकोऽहं गिरिर्वास्त्यसौ चेतसीतीव हृल्लेखवान्वीक्षितुम्॥७३॥ ततोऽधंदाद्रिदर्शनानन्तरमारुरुक्षुरवुदपर्वतोपरिभूमीमध्यारोटुमिच्छुः चढितुकामो मुमुक्षुक्षि तीन्द्रः भ्रमणधरणीरमणो गिरेर्हिमादिनन्दनसानुमतः सवेशं समीपवर्तिनं