________________
काव्यमाला।
धात्री भूतानां चराचराणां गिरिसमुद्रादिमनुष्यपर्यन्तानां धरणशीलां समग्रमध्यमलोकं फणानां स्खशिरःस्फटानां मण्डलैश्चक्रवालैः कृत्वा विभ्रतो धारयतः ॥
कण्ठपीठीलुठत्पार्वणश्वेतरुत्तारकानायकोदात्तमुक्तालता । व्योम निर्भिद्य यातेन येनोच्चकैर्धार्यते भूभृतेवात्मभूषाकृते ॥ ६४ ॥
येन भूभृता अर्बुदाचलेन आत्मनः स्वशरीरस्य भूषाकृते शोभाविधानाय कण्ठपीव्यां ग्रीवायाम् । यथा नैषधे-'दधदम्बुदनीलकण्ठताम्' राजमन्दिरवर्णने । कण्ठशब्देन कन्धरा । एतावता अधित्यका । पीठशब्दः स्त्रीक्लीबलिङ्गः । 'जयत्युदरनिःसरद्वरसरो. जपीठीपच्चतुर्मुखमुखावलीरचितसामनामस्तुतिः' इति चम्पूकथायाम् । तथा 'वंशिकवक्रोष्ठिककन्यकुब्जपीठानितक्तमव हित्थम्' इति लिङ्गानुशासनेऽपि । लुठन्तः इतस्ततो भवन्तो ये पार्वणाः पूर्णिमासंबन्धी श्वेतरुक् चन्द्रमाः तथा तारकास्तारा उपलक्षणात् ग्रहनक्षत्राणि तेषां नायको मध्यमणिस्तेन युक्ता उदात्ता उदारा महाा वा । 'उदात्तनायकोपेता' इति चम्पूकथायाम् । 'उदात्तो महात्मा महाय॑श्च' इति तट्टिपनके। मुक्तालता मौक्तिकहारो ध्रियते किमु । भूभृता किंभूतेन । व्योम गगनं निर्भिद्य अत्युचैस्तरत्वाद्भित्त्वा विदारयित्वा उच्चकैरूर्व यातेन संप्राप्तनेत्यत एव कंधरायां ज्योतिश्चकमायातम् ॥
अभ्रविभ्राजियन्मेदिनीभृङ्ग्रगुत्रातनिष्पातिपाथःप्रवाहोत्थितैः । उत्पतद्भिः पतद्भिर्नभःपद्धतौ बिन्दुवृन्दैरिवाभावि ताराभरैः ॥ १५ ॥ उत्पतद्भिर्महत्प्रस्तरोपरि निपतनादुच्चैरुच्छलद्भिः । अत एव. कारणानभःपद्धती गगनमार्गे पतद्भिर्गत्वा तिष्ठद्भिबिन्दुवृन्दैर्जलकणनिकरैः । उत्प्रेक्ष्यते-ताराभरैः तारकनिकरैरभावि भूतमिव । शुचिजलकणा एवाकाशे तारा बभूवुः । किंभूतैबिन्दुवृन्दैः । अभ्रे नगनाङ्गणे विभ्राजिनां शोभनशीलानाम्। नभसंगतानामित्यर्थः । यन्मेदिनीभृद्भगूनां यस्यार्बुदाचलस्य शृङ्गाणां भैरवंझम्पारूपाणां वा तटानां बातेभ्यः समूहेभ्यो निष्पातिभ्यो निष्पतनशीलेभ्यः अधोनिर्गमनशीलेभ्यः पाथसां निर्झरनीराणां प्रवाहेभ्यो धाराभ्यः उत्थितैरुद्गतैः प्रादुर्भूतैः ॥ मित्रपुत्र्या सह स्थातुमप्यम्बरे तामुपादाय भूमेः पुनः स्वःसरित् । यद्गिरेवत्मेना शालितालीमिलत्कुन्दमालाच्छलाद्गच्छतीवाम्बरम् ॥६६॥ शालिनीभिः शोभनशीलाभिः तालीभिः राजतालीनामभिस्तरुविशेषैः । देशैकग्रहणेन देशिनो ग्रहणम् । यथा भामाग्रहणेन सत्यतामेति । तैः समं मिलन्त्यः सङ्गं कुर्वन्त्यः एकत्रोद्गतायाः कुन्दानां विकसितकुसुमकदम्बकवलक्षीकृतमुचकुन्दपादपानां मालायाः श्रेण्याश्छलात्कपटात्स्वःसरिन्मन्दाकिनी यद्रेियस्यार्बुदशैलस्य वर्त्मना मार्गेण भूमे सकाशानभस्तलाद्भूमीमुत्तीर्य पुनस्तत्र गमनेन द्वितीयवारमम्बरमाकाशं गच्छतीव य तीव । किं कृत्वा । मित्रस्य सख्यु नोर्वा पुत्र्या यमुनया सह अम्बरेऽपि गगना'