________________
१२ सर्गः]
हीरसौभाग्यम् ।
६५७
यो धरित्रीधरः अर्बुदपर्वतः क्वापि कुत्रापि प्रदेशे पुरं नगरं धत्ते बिभात । उत्प्रे. श्यते-ख: स्वर्ग बिभ्रतो धारयतः सुमेरोः कनकाचलस्य । 'मेरुः स्वर्गाधारः' इति परसमये । यदुक्तं च नैषधे–'दिवमङ्कादमराद्विरागताम्' इति । स्पर्धया संहर्षेणैव । यः किंभूतः । अर्जुनानां ककुभद्रुमाणां मेरुपक्षे खर्णानां व श्रियं शोभां दधातीति दधः । पुन: किंभूतः । मानां विलासागताङ्गनायुतमनुष्याणां पक्षे अमर्त्यानां स्वाङ्गनासंगत किंनरसिद्धगन्धर्वादिदेवानां मालाभिः श्रेणिभिः स्फुरन्त्यः शोभमानाः कंदरा गुहा यस्य । पुनः किंभूतः । भद्रः श्रेष्ठैरथवा कल्याणकलितैः कदाचित्केऽपि तान्न खण्डयन्ति तादृशैः सालैः पादपैर्देवदारुभिर्वा उल्लसन्नुल्लासं प्राप्नुवन् । मेरुपक्षे-भद्रसालनाना मन्दरोपत्यकावर्तिना वनेन च शोभमान: । पुनः किंभूतः । ऋक्षाणां भल्लूकानां महत्केशावृताङ्गानां रीछ' इति लोके प्रसिद्धानां वन्यस्खापदानाम् । मेरुपक्षे-कक्षाणां नक्षत्राणाम् । भूः स्थानम् । 'नक्षत्रभूः क्षत्रकुलप्रसूतेर्युक्तो नभोगैः खलु भोगभाजः । सुजातरूपोऽपि न याति यस्य समानता कांचन काञ्चनाद्रिः ॥ इति चम्पूकथायाम् ॥
अम्बरालिङ्गिशृङ्गावलीपल्वलोपाश्रयाः स्मेरदम्भोजिनी रागिणीः । योऽभिकेनाभ्रपान्थेन साकं सदा मित्रवत्कारयामासिवान्संगमम् ।। ६२ ॥ योऽर्बुदोऽदिमित्रवत्सखेव रागिणी: शोणा अनुरक्ताश्च न्मेरन्तीविकसन्तीः अनु. रागातिरेकात्मुखीभवन्तीश्चाम्भोजिनी: पद्मिनीस्त्रियः कमलिनीश्च । अभिकेन कामुकेन । 'कामुकः कमिता कम्रोऽनुक: कामयिताभिकः' इति हैम्याम् । तथा 'प्रत्यङ्गमस्यामभिकेन रक्षां कर्तुं मघोनेव निजास्त्रमस्ति' इति नैषधे। अनुरागिणा अभ्रपान्थेन भानुन, साकं सदा प्रतिदिनं संगम संयोगं कारयामासिवान् निर्मापयति स्म । प्रिय मित्रोऽपि कयाचिदनुरागिण्या पद्मिन्या कामिन्या समं व मित्रं संगमयति । किंभूताः । अम्बरमांकाशमालिङ्गन्ति संस्पृशन्तीत्येवंशीलानां शृङ्गाणां शिखराणामावली श्रेणी तस्यां ये पल्वला अखातसरांसि तेषु उपाश्रयः स्थानं यासाम् । 'केलती मदनयोरुपाश्रये' इति नैषधे । उपाश्रयः स्थानं साधूनामपि प्रसिद्धम् । अत्युच्चैस्तरशिखरसरसिरुहिणीनां रविणा संयोग: सुकर एवेति । पद्मिनोनामपि चन्द्रशालासंगतानाम् । 'चन्द्रशाला शिरोगृहम्' इति हैम्याम् ॥
सिन्धुशैलोद्भवद्गौरवैर्दुवहां बिभ्रतो भूतधात्री फणामण्डलैः । भोगिनां वासवस्येव विश्रान्तये निर्मितो नाभिजातेन यः क्ष्माधरः ६३
यः अर्बुदाचलः । उत्प्रेक्ष्यते-भोगिनां भुजंगमानां वासवस्य पुरंदरस्य शेषनागनाथस्य विश्रान्तये विश्रामं दातुं नाभिजातेन प्रजापतिना ब्रह्मणा निर्मितः कृत इव । किंभूतस्य वासवस्य । सिन्धवः सर्वेऽपि समुद्राः, शैलाः मेरुहिमाद्रिकलासाद्याः समस्ता अपि पर्वताः, तेभ्यः उद्भवद्भिरुत्पद्यमा गौरवै रैर्गुरुतरभरैर्वहां दुःखेन वोढुं शक्याम् । दुःखेन परानपेक्षत्वेन एकेन खयमेवासातेनोह्यते इति दुर्वहा तादृशी भूत