SearchBrowseAboutContactDonate
Page Preview
Page 583
Loading...
Download File
Download File
Page Text
________________ ५२२ काव्यमाला। भुमनःश्रेणिवत् । यथा देवराजी भुवं न स्पृशति । पादाभ्यामिति शेषः । रमालकारकृतीश्च धत्ते॥ प्रसाधिकाभिः परमाणुमध्या विभूषिताङ्गचः पुपुषुर्विभूषाम् । निसयेवोपनता व्रतीन्दोर्भुजंगलोकाद्भुजगेन्द्रवध्वः ॥ ११९ ॥ प्रसाधिकाभिर्मण्डनकारिणीभी रमणीभिः । 'प्रसाधिकालम्बितमप्रपादमाक्षिप्य काचिह्नवरागमेव' इति रघुवंशे । विभूषितं विचित्रपत्रवल्लीरचनाभिरलंकृतमहं वपुलता यासां तादृश्यः । परमाणुमध्याः कृशोदर्यः । 'अध्यापयामः परमाणुमध्याः' इति नैषधे । भूषां शोभा पुपुषुः चिन्वन्ति स्म । दधुरित्यर्थः । उत्प्रेक्ष्यते-भुजंगलोकानागमवनादतीन्दोः सूरीन्द्रस्य निनंसया नन्तुमिच्छया उपनता आगता । 'उपनमन्ति तमीशसमुत्सुकाः प्रणयतो परितुं सकलाः श्रियः' इति ऋषभनम्रस्तवे । 'उपनमन्त्याग च्छन्ति' इत्यवचूर्णौ । भुजगेन्द्रवध्वः नागनायकनायिका इव ॥ सुदृशां शिरसि व्यलीलसत्कलशाली मणिहेमनिर्मिता । स्तनवैभवभत्सितेव यद्विजिगीषुः परमभ्युपेयुषी ॥ १२० ॥ सुदृशां सकान्तकामिनीनां शिरसि मस्तके कलशानां कुम्भानां माली श्रेणी व्यलीलसत् विलसति स्म । शुशुभे इत्यर्थः । उत्प्रेक्ष्यते-स्तनानामर्थात्तत्कामिनीकुचमण्डलानां वैभवेन तुङ्गतादिशोभया भत्सिता अभिभूता सती तद्विजिगीषुस्तान् कुचान् पुनर्व्याधुट्य विजेतुमिच्छुरभ्युपेयुषी । अभिमुखमुपेता समीपे समागता वा ॥ विहायोङ्गणालिङ्गिगेहाग्रशृङ्गानिलालोककेतुक्कणत्किंकिणीभिः । पुरी प्रेक्ष्य सूरिं किमायान्तमन्तर्भवत्प्रीतिरातन्तनीतीव गीतिम् १२१ आयान्तं खस्यान्तिकं समागच्छन्तं सूर हीरगुरुं प्रेक्ष्य व्यालोक्य अन्तर्मध्ये अर्थानिजचित्ते भवन्त्युत्पद्यमाना प्रीतिः प्रमोदो यस्यास्तादृशी पुरी अहम्मदाबादाभिधाना नगरी । गीतिं गानमातन्तनीति अतिशयेन सृजतीव विस्तारयतीव वा । काभिः । 'विहायोङ्गणं गगनाजिरमालिङ्गन्त्याश्लिषन्तीत्येवंशीलानां गेहानां महेभ्यभवनानामग्राणि उपरितनानि शृङ्गाणि शिखराणि तेष्वनिलैः पवनैरालोलाश्चश्चला ये केतवो वैजयन्त्यः पताकास्तेषां क्वणन्तीभिः शब्दायमानाभिः किंकिणोभिः क्षुद्रघण्टिकाभिः धुर्घरि काभिः कृत्वा ॥ तुमुलैर्बन्दिवृन्दानां तूरखरकरम्बितैः । भूपरीरम्भकाम्भोदनिहाँदैरिव निर्बमे ॥ १२२ ॥ बन्दिवृन्दानां मङ्गलपाठकप्रकराणां तुमुलै: कोलाहलै: बहुदानादानमनोरथैरुपर्युपरि पततां व्याकुलशब्दनिर्बभे तस्मिन्नवसरे नितरां शुशुभे । किंभूतैः तुमुलैः । तूराणामनेकजातीयवादित्राणां खरैः शब्दैः करम्बितैः मिश्रीकृतैः। व्याप्तैरित्यर्थः । 'अक्षबीजब
SR No.002262
Book TitleHeer Saubhagya Mahakavyam
Original Sutra AuthorN/A
AuthorDevvimal Gani, Shivdatta Pandit, Kashinath Sharma
PublisherKalandri Jain S M Sangh
Publication Year1985
Total Pages980
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy