________________
११ सर्गः हीरसौभाग्यम।
५२१ पर्याण्यन्ते स्म वाहा हरिहरय इवोत्तीर्णवन्तः क्षमायां
काप्यप्राप्तावलम्बाम्बरचरणभवद्भूमनिर्वेदभाजः । शृङ्गार्यन्ते गजेन्द्रा गिरिगुरुवपुषः क्लृप्तसिन्दूरपूरा
विद्मः प्रातस्त्यसंध्याः कुनयसमुदवज्योतिरस्तं नयन्त्यः ॥ ११७॥ वाहास्तुरगाः पर्याण्यन्ते स्म पल्ययनकलिताः क्रियन्ते स्म । उत्प्रेक्ष्यते-वापि कस्मिन्नपि प्रदेशे अप्राप्तमनासादितमालम्बनमूनोभवनोपवेशनादिस्थित्याधारस्थानं यत्र तादृशेऽम्बरे गगनाणे चरणं परिभ्रमणं तम्माद्भवन्नुत्पद्यमानो यो भूना बाहुल्येन निर्वेदः खेदः तं भजन्तीति तादृशाः सन्तः क्षमायां पृथिव्यामवतीर्णवन्त आगता 'इन्द्राश्वा इव । 'शतैस्तमक्ष्णामनिमेषवृत्तिभिहार विदित्वा हरिभिश्व वाजिभिः' इति रघुवंशे शकस्याश्वानां बाहुल्यं न त्वेक एवोच्चैःश्रवाः । अथ वा सूर्याश्वा इव । पुनर्गजेन्द्राः शृङ्गार्यन्ते स्म रक्तपीताम्बरचरमर किंकिणीघण्टाद्यनेकशृङ्गारयुक्ताः निर्मीयन्ते स्म । किंभूताः । गिरिः पर्वतस्तद्वद्गुरु महद्वपुः शरीरं येषाम् । पर्वतप्राया इत्यर्थः। पुनः किंभूताः । कृप्तो रचित: सिन्दूराणां शृङ्गारभूषणानां पूरः समूहो येषु । उत्प्रेप्यते-प्रातस्त्याः प्रातःकालीनाः संध्या इव । किं कुर्वन्त्यः । कुनयानां शाक्यादीनां कुमतानां वा समुदायो गण: स एव ज्योतिर्ग्रहनक्षत्रतारकादिस्तदस्तं नाशं नयन्त्यः प्रापयन्यः । भूम्या व्योमर्ण्ययेनाधृषत रविरथाः पद्महम्तैः श्रिताकाः
कैश्चित्सज्जीक्रियन्ते कनकमणिमयाः सत्तुरङ्गाः शताङ्गाः । पङ्किः पादातिकानां विविधमणिगणालंकृतीरुद्वहन्ती
राभस्यादस्पृशन्ती भुवमपि सुमनःश्रेणिवत्सज्जति स्म ॥ ११८ ॥ कैश्चित्पुरुषैः सन्तः शोभनास्तुरङ्गा अश्वा येषु तादृशाः शताहाः स्यन्दना रथाः सज्जीक्रियन्ते । किंभूताः । कनकं स्वर्ण मणयो रन्नानि प्रचुराणि प्रधानानि वा येषु । पुनः किंभूताः । पद्महस्तैः क्रीडाथै हस्ते गृहीतकमलैः, अथवा भाग्यवत्तया पद्ममाकृत्या हस्ते येषां तैः । धितोऽङ्कः सेवित उत्सङ्गो येषाम् । उत्प्रेक्ष्यत-व्योन्ना नभसा सममीीया स्पर्धेद्धृताभ्यसूचया भूम्या पृथिव्या रविरधा: सूर्यस्यन्दना इवावृषत ध्रियन्ते स्म। तेऽपि कमलपाणिभिभास्करैरधिष्ठितमध्यास्तथा मुवर्णमणिमया: शोभनाश्वाश्च । सूर्याणां बाहुल्याद्रयानामपि बाहुल्यम् । पुनः पादातिकानां पत्तीनां महेभ्यानां सार्धम् । सशनाः पत्तिजना भवन्त्येव । अथ वा पादचारिणीमल्पद्रव्यत्वाद्वाहनामावस्तेन चरणचारिता तेषां पतिः परम्परा सजति स्म । किं कुर्वन्ती । विविधानामनेकप्रकाराणां मणिगणानामात्वर्णरत्नराजीनामलंकृतीभूषणानि उद्वहन्ती धारयन्ती । पुनः किंभूता। राभस्यात्मविदनोत्सुक्या वं क्षोणीमण्डलमप्यस्पृशन्ती न संघयन्ती । किंवत् ।