________________
११ सर्गः ]
हीरसौभाग्यम् ।
५१९.
स यतिनां श्रमणानां मध्ये क्षितेः क्षोण्या द्विजपतिश्चन्द्रः । राजेत्यर्थः । क्रमाद्विहारपरिपाट्या वर्त्म मार्गे व्यलङ्घत अतिक्रान्तवान् उल्लङ्घयामाग! किंभूतं वर्म । कचित्प्रदेशे मृगाः कुरङ्गाः उपलक्षणादन्येऽपि वन्यश्वापदाः तथा विना सर्वजातिविशेषाः लोके 'चित्रडि' इति प्रसिद्धा उपलक्षणात्तत्तवातयथ । अथवा चित्रा आखुकपर्णी इन्द्रवा रुणी वा उपलक्षणात्सर्वौषधयस्ताभिरन्वितम् । किंवत् । पंवनवनैवयथा आकाशं मृगो मृगशीर्ष पतङ्गः सूर्यः तथा चित्रा नक्षत्रं तैर्युतम् । 'चित्रादन्त्यां सुभद्रायां नक्षत्रौषधिभेदयोः । दिव्यस्त्रीसपयोराखपय च' इत्यनेकार्थतिलके । पुनः किंभूतम् । मदनैर्भडल इति नाम प्रसिद्धैः पादपैमेदुरं भृतम् । किमिव । कुलमित्र । यथा एणकान्ता मृगाङ्गना हरिण्यस्तासां दृश इव दृशोऽतिचपलानि लोचनानि यासां तासां स्त्रीणां वृन्दं मदनेन कंदर्पेणोपचितम् । पुनः किंभूतम् । सह सह देवैरौषधिविशेषैस्तथा भीमैराम्लवेतसैः तथा अर्जुनैरर्जुननामवृक्षविशेषैर्वर्तते यत्तत् । किं च कुरुनिकेतवत् यथा कुरूणां कौरववंशीयनृपाणां पाण्डूनां राज्ञाम् । महत्त्वाद्बहुवचनम् । कुरोः पाण्डोर्नृपस्य वा गृहं सह सहदेवो माद्रीनन्दनः भीमार्जुनौ कुन्तीसुतौ वृकोदरकिरीटिनौ तैर्युक्तम् । 'सहदेवेनैकेन स्पर्धमाना अनेकैः सहदेवः संगताः' इति चम्पूकथायाम् । पुनः किंभूतम् | क्वचित्कुत्रचिस्थाने कीचकैः सच्छिद्रवंशैः वेणुभिः अञ्चितं कलितम् । किंवत् । विराटनृपगेहवत् । यथा विराटराजस्य गेहूं कीचकैविराटनृपपत्न्याः सुदेष्णायाः शतसहोदरैः कलितं सहितम् । पुनः किंभूतम् । कचित्प्रदेशे विविधा लघुवृद्धादयो वाहिन्यो नद्यस्ताभिर्मण्डितम् । किंवत् । नृपसमीपवत् । यथा राज्ञः पार्श्व विविधाभिर्गजहयरथपदातिप्रमुखाभिः सेनाभिर्भूषितं भवति । 'वाहिनी सिन्धु सैन्ययोः इत्यनेकार्थः । पुनः किंभूतम् । शिखिनां मयूराणां विविधैः स्फूर्जितैः केकारवताण्डव क्रीडादिविलासै: कलितम् । किंवत् । अग्भिविद्भवनवत् यथा अग्निहोत्रीयाणां गृहं शिखिनां दक्षिणाग्निहवनीयगार्हपत्याभिधानां त्रयाणां हुताशनानां विस्फूजितैः स्फूर्तिभिः कलितं भवेत् । पुनः किंभूतम् । करीन्द्राणां यूथनाथानां कुलैर्वशः संकुलं व्याप्तम् । किंवत् । विन्ध्यभूमीवत् । यथा विन्ध्याचलो गजेन्द्रकुलैः संकुलो भवति ॥ इति गन्धाराकमिपुरमध्यमार्गवर्णनम् ॥
. विबुधपतिपुरंध्रीबन्धुरारब्धलीलं जिनपदकृतशोभं संचरच्छेतदन्ति ।
तटमिव वरटाया वल्लभः स्वर्वहाया
अकमिपुरसमीपं भूषयामास सूरिः ॥ ११४ ॥
सूरिरकमिपुरसमीपमहम्मदाबादनगरपार्श्व भूपयामासालंकरोति स्म । किंभूतः । विबुधपतीनां कोविदपुरंदराणां पुरंध्रीभिः शुककामिनीभिः बन्धुराः तरुणकामिजनमनोइरा: आरब्धाः प्रक्रान्ता लीला वनवसन्ततरुकुसुमावच यहल्ली सकगाननृत्यान्दोलनादि