________________
११ सर्गः ]
हीरसौभाग्यम् ।
११३
असौ प्रत्यक्षा शासनस्वर्मृगाक्षी सिद्धायिकानाम्नी श्रीमन्महावीर जिनशासन देवतेव समेता समागता किमु । किं कर्तुमिच्छुः । एतदत्रैव काव्ये प्रोच्यमानं विवक्षुर्वकुमिच्छुः कथयितुकामा । किं तदेवाह - हे सूरे, अहं शासनमुरी अभ्यासे श्रीमत्समीपे एव तस्थुषी स्थितवती सती अनिशं निरन्तरमहोरात्रमेव ते तव महावीरपट्टधारिणः सुरे: सांनिध्यं सत्यवसरे श्रीमत्समीहितकार्य विधास्यामि करिष्यामि । दुष्करमपि भवदीसितार्थ साधयिष्यामीति ॥
प्रशान्तै रसैः पूरितः पूर्णकामो भवांस्तूर्णमेवास्तु मद्वन्मुनीन्दो । सकान्तोत्तमाङ्गे स्थितः पूर्णकुम्भः पुरोऽभूदितीव प्रभोर्वक्तुकामः ॥ ९४ ॥ सह कान्तेन भर्त्रा विद्यते या सा तस्याः सकान्तायाः सधवायाः स्त्रिय उत्तमाङ्गे मस्तके स्थितः पूर्णकुम्भो जलभरम्रतकलशः प्रभोः सूरेः पुरोऽग्रे अभूत्संजातः । अभिमुखः समाजग्मिवानित्यर्थः । उत्प्रेक्ष्यते - प्रभोरविजयसूरेरित्यमुना प्रकारेण वक्तुकामः कर्थयितुमना इव । इति किम् । हे मुनीन्दो, भवान्मद्वदहमिव प्रशान्तैः प्रकर्षेण शान्तनामभिरुपशमलक्षणै रसैः सर्वेभ्योऽपि रसेभ्यः प्रशस्यत्वान्महानन्ददायित्वाच्च बहुत्वम् । पूरितः परिपूर्णीभूतः भृतः सन् तूर्णं शीघ्रमेव पूर्णाः सिद्धा निष्पन्नाः कामा अभिलाषा यस्य तादृशोऽस्तु भवतात् । यथाहं रसैः सलिलैः पूरित आकण्ठपीठं पूर्णः भृतमध्यः संजातोऽत एव पूर्णो जलादानलक्षणः कामो मनोरथो यस्य ॥ प्रणीयाभिभूतिं सुधाखःस्रवन्तीतमी कान्तमुख्याखिलद्वेषभाजाम् । किमु श्लोक एतस्य मूर्तः समेतो दधि व्यालुलोके पुरस्तादनेन ॥९५॥ अनेन हीरगुरुणा पुरस्तादप्रे दधि पयः सुतो व्यालुलोके वीक्ष्यते स्म । संमुखं दधि दृष्टमित्यर्थः । उत्प्रेक्ष्यते — मूर्तस्तनूमानेतस्य सूरेः को यशः किमु समेत आगत इव । किं कृत्वा । सुधा पीयूषम्, स्वः स्रवन्ती गङ्गा, तमीकान्तश्चन्द्रः, मुख्याः प्रकृष्टा येषामादौ वा तादृशा अखिलाः समस्ताः श्वैत्यश्रिया द्वेषभाजो वैरिणः प्रतिपक्षाः तेषाभूर्ति पराभवं प्रणीय विधाय कृत्वा ॥
यदोजोजितः किं प्रसत्त्यै समेतः पुरो हव्यवाहो गलद्वायुवाहः । यतीन्द्रेण गर्जन्गजोऽप्यालुलोके प्रयाणे प्रभोदुन्दुभिं दध्वनन्किम् ९६ यतीन्द्रेण सूरिणा पुरोऽग्रे हव्यवाहो वहिरालुलोके निरीक्षितः । किंभूतः । गलन्निर्गच्छन् वायुवाहो धूमो यस्मात् । निर्धूम इत्यर्थः । उत्प्रेक्ष्यते--- येन सूरिणा ओजसा खबलप्रतापेन कृत्वा जितो भूतः सन् प्रसत्त्यै अर्थात्सूरेः प्रसन्नीकरणार्थ किं समेतः समागत इव । अपि पुनः सूरिणा गर्जन् बृंहितं विदधत् गर्जारवं गलगर्जितं कुर्वाणः गजो वारणो हस्ती । पुर आगच्छन्नित्यध्याहार्यम् । आलुलोके ददृशे । उत्प्रेक्ष्यते - प्रभोः प्रयाणे पूर्वदिप्रस्थाने दध्वनन्नतिशब्दायमानो दुन्दुभिरेव निःखान इव भेरीद वा पटहो 'वा । 'मेरी दुन्दुभिरानकः' इति त्रयोऽप्येकार्था हैम्याम् । शास्त्रान्तरे पृथगर्था अपि
६५