________________
११ सर्गः]
हीरसौभाग्यम् ।
५०१
पक्षाः परीवारा: सहाया वा मित्राणि वा पक्षतयश्छन्दाश्च येषां तादृशान् सृजन् कुर्वन् । पक्षतिशब्देन पक्षा अप्युच्यन्ते। यथा नैषधे-'दिवमङ्कादभरादिरागतां घनरनकपाटपक्षतिः' इति । किं कुर्वन् । अनिशं निरन्तरं रत्नगर्भा भूमिरेवावरोधोऽन्तःपुरं तत्र कीर्तय एव दाराः पत्न्यस्तान् वासयन् स्थापयन निवासं कारयन् । किंभूतान् कीर्तिदारान् । सखीभूता वयस्यो जाताः दिवसुभ्रवः आशावशा दिगङ्गना येषां तान् । पुनः किंभूतान् । सौविदल्लीकृता अन्तःपुररक्षकाः कृताः कञ्चकिभावं प्रापिताः । कञ्चकिनो हि पुरुषा नृपाणामवरोधरक्षाविधायिनः स्युरिति स्थितिः । औदार्य दानशौण्डता । अतिदातृत्वमित्यर्थः । धैर्य देवदानवमानवादिभिरचालनीयसत्त्वं धीरता आदी येषां तादृशा भावन्तो भुवनेषु स्फूर्तिमन्तः जगच्चेतश्चमत्कारकारिणो वा गुणानामोघाः . समूहा येषु येषां वा । किंभूता रत्नगर्भा । चत्वारः प्राच्यप्रतीच्यापाच्योदीच्यलक्षणाश्चतु:संख्याका ये वीचिमन्तः कल्लोलमालिनः समुद्रा एव खातिका परिखा यत्र । अत्र गर्भितोत्प्रेक्षा ॥ युग्मम् ॥ जगन्मानसानामिवाकृष्टिरश्मीन्सुधाधामवद्विभ्रतः शुध्रिमाणम् । कदाचित्समाकर्ण्य युष्मद्गुणौघान्प्रभून्प्रेक्षितुं कासता तेन साक्षात् ।। ५७ ॥ तनूमन्निदेशं नृपस्येव लेखं करे बिभ्रतः प्रेषिताहृतयुग्मात् । प्रभोः सूक्ष्मदर्शीव शास्त्रस्य हार्द विदित्वा मुदा साहिबः खानमुख्यः।।९८॥ इवानूरुरर्चिष्यतीन्पूर्वशैलं तदीयान्तिकं पूज्यपादान्निनीषुः ।
सहायानिवाहूय नः श्रीमुनीन्दो सुखं प्रेषयामास वः संनिधाने ॥ १९ ॥ ... हे श्रीमुनीन्दो, साहिब इति नामा खानेषु यवनसामन्तेषु मुख्यः श्रेष्ठः स मुदा • हर्षेण सहायान् सखीनथ वा अनुजीविन इव न: अस्मान् आहूयाकार्य सुखं यथा स्यातथा बहुमानपुरःसरं न तु वलेन वो युष्माकं संनिधाने समीपे प्रेषयामास प्रहिणोति स्म । साहिबखान: किं कर्तुमिच्छुः । पूज्यपादान् श्रीमद्भगवच्चरणांस्तदीयान्तिकमकबरसाहिपार्श्व निनीषुः नेतुमिच्छुः । क इव। अनूरुरिव । यथा सूर्यसारथिररुणः अर्चिध्यतीन् भास्करान् पूर्वशैलमुदयाचलं नयति । एतावता अनेनोपमानेन कृत्वा द्वयोरप्यभ्युदयः सूचितः । किं कृत्वा । दृतयुग्मात्संदेशहारिद्वन्द्वात्प्रभोरकब्बरसाहेः खखा. मिनः हार्द हृदयाभिप्रायं विदित्वा ज्ञात्वा । क इव । सूक्ष्मदर्शीव । यथा कुशाग्र्यमतिः शास्त्रस्य हार्दमुपनिषदं रहस्यं वेत्ति । दृतयुग्मात्किं कुर्वतः । करे खहस्ते लेखं साहिस्फुरन्मानं बिभ्रतो धारयतः । उत्प्रेक्ष्यते-नृपस्याकव्बरपातिसाहेमूर्तिमन्तं देहभाज मूर्त वा निदेशमाज्ञामिव । पुनः किंलक्षणात् । तेन साहिनैव प्रेषितात्स्वयं गुर्जरेषु प्रस्थापितात् । किं कुर्वता। प्रभून् श्रीमद्भगवत्पादान् साक्षात्प्रत्यक्षेण खपुरः पादाव. धारितानिजनयननलिनाभ्यां प्रेक्षितुं विलोकयितुं काता समीहमानेन । किं कृत्वा । कदाचित्कस्मिंश्चिदपि व्यतिकरे विविधविद्वद्गोष्टीसमये युष्मद्गुणौघान् श्रीमतां गुणगणान्