________________
५००
काव्यमाला।
पानः ।
निस्तद्वर्जिताः प्रवला: तत्सदृशा वा स्तोत्राणां गोयमसोहमेत्यादिकानां सूरीन्दोः स्तुतिपाठानां रावाः शब्दास्तैः प्रतिध्वानितं प्रतिशब्दयुक्तं कृतमुपान्ते समीपे गन्धारसंनिधौ यः पाथोधिः समुद्रस्तस्य मध्यं जलान्तरालं यैः । समीपे दूरे वा जलधौ प्रतिध्व. निदृश्यते । यथा नैषधे नलस्य दमयन्तीपरिणयनगमनावसरे-'विचित्रवादित्रनिनादमूर्छितः सुदूरचारी जनतामुखारवः । ममौ न कर्णेषु दिगन्तदन्तिनां पयोधिमध्यप्र. तिनादमेदुरः ॥' इति ॥
पयःपूरितप्रावृषेण्याम्बुदानामिव स्तोककैरुन्मुखत्वं दधानैः । स्फुरद्वाग्विलासामृतं पातुकामैः पुरस्तात्प्रभोस्तैरगृह्यन्त वाचः ॥ १४ ॥
तैः श्राद्धः प्रभोर्गुरोः पुरस्तादग्रे वाचो वचनान्यगृह्यन्त आदत्ताः । किं कर्तुकामैः । स्फुरन्ती चित्ताह्लादकत्वेनोल्लसन्ती या वाग्वाणी तस्या विलासो वैचित्री स एवामृतं. सुधारसः तत्पातुमाखादयितुं कामोऽभिलाषो येषां तैः । पुनः किं कुर्वाणैः । उन्मुखत्वं गुरुवदनावलोकनार्थ किंचिदुच्चैः संमुखभावं दधानैर्धारयद्भिः । कैरिव । स्तोककरिव । यथा अमृतं पयोदपयः पातुकामैः अत एवोन्मुखत्वमुच्चैर्वदनतां च पुटत्वं बिभ्राणैश्चातकैः पयोभिः सलिलै: पूरितानां भृतमध्यानां तथा प्रावृषेण्यानां वर्षाकालसंबन्धिनाम् । प्रावृषेरेण्यप्प्रत्ययः । अम्बुदानां मेघानां पुरस्ताद्वाचो गृह्यन्ते । यदुक्तम्-'विल. पति तृषा सारङ्गोऽयं त्वमुन्नतिमानहो जलमपि च ते संयोगोऽयं कथंचिदुपस्थितः । उपकृतिकृते प्रहुं तेऽतः कुरुष्व यदग्रतो भ्रमति पवनः कस्त्वं कोऽयं व ते जलविन्दवः ॥' तथा 'एक एव खगो मानी चिरं जीवतु चातकः । पिपासितो वा म्रियते याचते वा पुरंदरम् ॥' इति ॥ सखीभूतदिक्सुभ्रवः सौविदल्लीकृतौदार्यधैर्यादिभास्वद्गुणौघान् । चतुर्वीचिमत्खातिकं रत्नगर्भावरोधोऽनिशं वासयन्कीर्तिदारान् ॥ ५५ ॥ विपक्षान्विपक्षक्षमाभृत्सहस्रान्सृजन्मुद्गलाखण्डलः पूर्वदेशे । विभो वर्ततेऽकब्बरो द्रष्टुकामः किमाशां निजामुग्रधन्वावतीर्णः ॥ ५६ ॥
हे विभो हे गुरो, पूर्वदेशे इतः पूर्वस्यां दिशि मेवातमण्डले अकबरनामा मुद्गलानां यवनजातिविशेषाणां काबिलजनपदजन्मनामाखण्डलो वासवो वर्तते । उत्प्रेक्ष्यतेनिजामात्मीयामाशां दिशं प्राची द्रष्टुं स्वचक्षुषा निरीक्षितुं कामोऽभिलाषो यस्य तादृशः। उग्रं प्रबलं द्वेष्यैरधृष्यं धन्व देवायुध शक्रधनुर्वा स्वाभाविककोदण्डो वा यस्य स उग्र. धन्वा शक इवावतीर्णः क्षोणीमण्डल इवाजगाम । किं कुर्वत् । विपक्षा वैरिण: अथ वा विशिष्टाः पुत्रपौत्रमित्रभ्रातृखजनानिकादिकाः पक्षा येषां ताग्विधा ये क्षमाभृतो भूपतयः । अथ च विशेषा वैशिष्टयभाजः सर्वत्रोदयसामर्थ्यवन्तः पक्षा गस्तो येषां तादृक्षा ये क्षमाभृतः पर्वताश्च तेषां सहस्रान् सहनसंख्याकान् विपक्षान् विगता: