SearchBrowseAboutContactDonate
Page Preview
Page 532
Loading...
Download File
Download File
Page Text
________________ ४७१ १० सर्गः] हीरसौभाग्यम् । वाचं सुधामिव निपीय ततः समुद्र नेमीतमीवरयितुः श्रवणाञ्जलिभ्याम् । सामाजिकैः स जगदे द्विजचन्द्रिकाभिः संवर्धितस्फुरदुरःस्थलतारहारैः ॥ ९७ ॥ ततः साहिप्रश्नानन्तर सामाजिकैः पार्षद्यैः स साहिर्जगदे भाषितः प्रत्युत्तर प्रदीयते स्म । किंभूतः । निजवदनपद्मविराजिद्विजानां दशनानां चन्द्रिकाभिः कान्तिभिः । दन्ताधिकारे चन्द्रिकाशब्देन कान्तिरेवोच्यते । यथा रघौ-'दशनचन्द्रिकया व्यवभासितम्' इति । संवर्धिताः सम्यकप्रकारेण वृद्धि नीताः स्फुरन्तो दीप्यमाना उरःस्थले वक्षःस्थाने स्थितास्तारा उज्ज्वलास्तारकसदृक्षा वा हारा मुक्ताकलापा यैः । किं कृत्वा । श्रवणे कर्णावेवाञ्जलो यो जिनपाणि: एकोऽञ्जलिः ताभ्यां द्वाभ्यां कृत्वा समुद्रनेम्या क्षोणे: तमीवरयितुः शर्वरीवरस्याकब्बरपातिसाहे: पूर्वप्ररूपितप्रश्नलक्षणां वाणी निपीय सादरं श्रवणविषयीकृत्य । कामिव । सुधामिव । कश्चिद्भाग्यवान् पुमान् सद्गुरुप्रदत्तमन्त्राराधनविधिना पूर्वप्रेम्णा वा प्राचीनाचीर्णातिशायिपुण्येन वा प्रसन्नीभूतसुधाभुजा प्रदत्तं पीयूषमञ्जलिभ्यां पिबति ॥ - अस्माभिरीशितरदृश्यत दर्शनेषु .: सर्वेषु शेखर इवाखिलधार्मिकाणाम् । एकः स हीरविजयाभिधसूरिराजः क्ष्मापालपङ्क्तिषु भवानिव भूमिपीठे ॥ ९८ ॥ . हे ईष्टे सर्वत्र पृथिवीपीठे विजयविधानादौ समर्थीभवतीति ईशिता तस्य मंवो. धनम् हे ईशितः स्वामिन् , अस्माभिः श्रीमत्सदस्यैः भूमिपीठे निखिलमेदिनीमण्डले सर्वेषु समस्तेषु जैनबौद्ध शैवसांख्यवैशेषिकनास्तिकलक्षणेषु षट्सु दर्शनेषु शासनेषु । अथ वा भारप्राभाकरजैमनीयादिषु षड्दर्शनानां शाखाप्रशाखाभूतेष्वपि । सोऽसाधारणगणितानणुगुणगणैर्जगत्रये विख्यातः एको न द्वितीयो यस्याद्वितीयः हीरविजय इत्यभिधा नाम यस्य तादृशः सूरिष्वाचार्येषु त्रिशत्प्रतिरूपादिषगुणितषत्रिंशद्गुणै राजते दीप्यते इति राजा एतावता श्रीहोरविजय सूरिपुरुहूतोऽदृश्यत दर्शनगोचरीचक्रे नापरः । क इव । भवानिव । यथा निखिलानां मुद्गलानां प्रतिष्ठानानां ‘पठाण' इति प्रसिद्धानां विविधजातितुरुष्काणां राजपुत्राणां मापालानां पृथिवीपतीनां पतिषु मण्डलीषु भवान, साहीनामपि साहिदृश्यते । उत्प्रेक्ष्यते-अखिलानामिदानींतनयुगजन्मनां समस्तानां धार्मिकाणां धर्मकर्तृणां शेखरोऽवतंस इव मुकुटो वा ॥
SR No.002262
Book TitleHeer Saubhagya Mahakavyam
Original Sutra AuthorN/A
AuthorDevvimal Gani, Shivdatta Pandit, Kashinath Sharma
PublisherKalandri Jain S M Sangh
Publication Year1985
Total Pages980
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy