________________
काव्यमाला।
सभ्यानित्यमुना प्रकारेणानुयुनक्ति स्म । पप्रच्छेत्यर्थः । किंभूतायां सदसि । को. विनिरवद्यविद्याविदुरविशारदवृन्दैमेंदुरायां पुष्टायां भृतायाम् । मण्डितायामित्यर्थः । क्षितिसितांशुः किं कुर्वन् । गोष्ठी विनोदवाः सृजनिर्मिमाणः । क इव । अशेषशास्त्राधीतीव । यथा अशेषेषु समस्तेषु शास्त्रेषु व्याकरणसाहित्यप्रमाणच्छन्दोवेदज्योतिरलंकारनीतिचाणक्यादिषु वाङ्मयेषु अधीतमध्ययनमस्यास्तीत्यधीती सर्वशास्त्राध्येता गोष्टी सृजति ॥ किं पप्रच्छ तदेवाह
भास्वानिव प्रकटयत्यनवद्यमार्ग
प्राणान्निजानिव पिपर्ति समग्रसत्त्वान् । धत्ते स्पृहामिह न सिद्धमिव क्वचिद्यो
ऽनुक्रोशशालिपदवीमिव योजनौघः ॥ ९५ ॥ विश्वासुमत्सु समदृक्परमेशितेव ।
सङ्गं कुसङ्गमिव शान्तमना जहाति । . यः पोतवत्तरति तारयते परांश्च
संसृत्युदन्वति स कश्चिदिहास्ति साधुः ॥९६॥ (युग्मम्) ___ इह ममाज्ञावर्तिनि महामण्डले सर्वदर्शनेषु वा स प्रसिद्धिमान् साधुर्महात्मा कश्चिकोऽपि अस्ति वर्तते । यत्तदोर्नित्यसंबन्धात् स कः । यो महात्मा भाखान् मार्तण्ड इवानवद्यं निष्पापं मार्ग पन्थानं प्रकटयति प्रकाशयति । तथा यो निजानात्मीयान्प्रा. णान् असूनिव समप्रान् सर्वान् सत्त्वान् प्राणिनः पिपर्ति पालयति । तथा यः सिद्धो मुक्तात्मेव इह विश्वे पुत्रकलनधनादिसंसाराभिषले वा क्वचित्कुत्रापि पदार्थे स्पृहां वाञ्छा न धत्ते दधाति सृजति वा । पुनर्योजनानां चतुःकोशीमानानां मार्गप्रमाणविशेषाणामोघः समूह इव अनुक्रोशेन दयया । 'कृपानुकम्पानुक्रोशः' इति हैम्याम् । अनुगतेः परस्पर संबद्धैः कोशैर्गव्यूतिभिः शालते शोभते इत्येवंशीला पदवीं मार्गमाचारं पन्थानं च धत्ते । तथा यः परमेशितेव परमेश्वर इव विश्वेषां त्रयाणां भुवनानां समस्तेषु वा असुमत्सु जन्तुषु समा समभावा खपरव्यवसायरहिता एकस्वभावैव दृक् दृष्टिर्यस्य । तथा यः शान्तमुपशमशालि मित्रामित्रेषु समतया समपरिणामतया प्रव. र्तमानं वा मनः खान्तं यस्य तादृक् सन् कुसङ्ग कुकुत्सितं पाप्मभिर्व्यसनिभिः पिशुनैर्वा सङ्गं संगममिव । सङ्गं प्रमुदाप्रमुखसंबन्धं धनभोगविलासादिकं संगम वा ज. हाति खयं त्यजति । च पुनः संमृतिः संसारः स एवागाधोऽपरचक्षुरलक्ष्यतल: उदन्वानपारः समुद्रः तस्मिन् पोतवद्यानपात्र इव खयं तरति परपारं प्रयासं विनैव मुखेन प्रयाति, परांश्च तारयते परं पारं लम्भयते ॥